________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(खो० व्या०) 'सद्भूतवस्तुवादी त्यनेन पुनर्वागतिशयमाह । यथोक्तम्
"पोग्गलरूवो सद्दो 'तहत्थवत्ता तहापयईए उ ।
___ सच्चाइचित्तधम्मा तेणिह ववहारसिद्धि त्ति ॥" 'शिवगतिनाथ' इति तु सिद्धत्वख्यापनमेतत् । महावीर इति च नाम भगवतः।
(विवरणम्)
श्रीवीतरागाय नमः। शेषमतिमतिशयाना यस्याऽनेकान्तजयपताकेह । हर्तुमशक्या केनापि वादिना नौमि तं वीरम् ॥ १ ॥ कतिपयविषमपदगतं वक्ष्येऽनेकान्तजयपताकायाः ।
वृत्तेविवरणमहमल्पबुद्धिबुद्ध्यै समासेन !॥ २॥ ननु शब्दार्थयोस्तादात्म्यतदुत्पत्तिसम्बन्धविरहाद् वाच्यवाचकभाव एव नास्ति । ततः कथं सद्भूतवस्तुवादित्वलक्षणश्चतुर्थोऽतिशयो घटते इत्याशयोक्तम्
“पोग्गलरूवो सहो तहत्थवत्ता तँहापयईए उ।
सच्चाइचित्तधम्मा तेणिह ववहारसिद्धि ति ॥ अस्वार्थ:-पुद्गलरूपो रूपरसगन्धस्पर्शस्वभावभाषावर्गणापुद्गलद्रव्योपादानकारणत्वेन मूर्तप्रकृतिः, न तु परेषामिव "शब्दोऽम्बरगुणः" इति वचनादाकाशधर्मत्वेनामूर्तः शब्दः प्रतीतरूप एव । तथेति विशेषणसमुच्चये । अर्थवक्ता-अर्थवाचकः, जीवादितत्वसप्तकप्रतिपत्तिनिमित्तमित्यर्थः । कुत इत्याह-तथाप्रकृतेस्तु । तुरेवकारार्थः। ततश्च तथा-२० तत्प्रकारार्थवचनस्वभावा या प्रकृतिः-स्वरूपं तस्या एव, अर्थवचनस्वाभाव्यादेवेत्यर्थः।
ननु "वस्तु वाचामगोचर" इति वचनाद् बौद्धपरिकल्पनाया इव वस्तुवाचकखभावशून्य इति । तथा सत्यादिचित्रधर्माभावप्रधानत्वानिर्देशस्य सत्यादयः सत्या-ऽसत्यसत्यामृषा-ऽसत्यामृषलक्षणभाषाभेदरूपाश्चित्रा:-नानाप्रकारास्तथाविधवक्तृव्यापार
१ 'तहाऽत्थः' इति घ-पाठः । २ 'तहा पईए' इति क-पाठः । ३ आर्याच्छन्दसि रचितस्यास्य पद्यस्य छाया----
पुद्गलरूपो शब्दस्तथाऽर्थवक्ता तथाप्रकृतेस्तु ।
सत्यादिचित्रधमो तेनेह व्यवहारसिद्धिरिति । ४ 'मतमति०' इति ख-पाठः । ५-६ आर्या । ७ तहाप्पइए' इति च-पाठः । ८ छायार्थ दृश्यतां तृतीयं टिप्पणकम् । ९ 'कारार्थ मतश्च' इति ख-पाठः । १० 'कल्पनाद्' इति क-पाठः । ११ 'बोद्धपरि०' इति ख-पाठः। १२ निर्दशसत्या०' इति ख-पाठः।