________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( खो० व्या० )
इन्द्राः शक्रादयस्तैः कृता पूजा - अशोकाद्यष्टमहाप्रातिहार्यादिलक्षणा यस्य स त्रिदशनाथकृतपूजः । अयमेव विशिष्यते - सद्भूतवस्तुवादीति । सद्भूतं यथाऽव५ स्थितं वस्तु वदितुं शीलं यस्य स सद्भूतवस्तुवादी । अयमेव विशिष्यते-शिवगतिनाथ इति । शिवगतेः - मोक्षगतेर्नाथः - तद्वशीकरणात् स्वामी शिवगतिनाथः । कोऽयमेवम्भूत इत्याह- महावीर इति । 'शूर वीर विक्रान्तौ' इति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः । "ईर गतिप्रेरणयोः' इत्यस्य वा 'विपूर्वस्य । विशेषेण रियति - कर्म गमयति याति वेह शिवमिति वीरः । महांश्चासौ वीरश्च महावीर इत्येष १० स्तवः । अयं च यथाभूतान्यासाधारणगुणोत्कीर्त्तनरूपत्वाद् भावस्तवः । तथाहिगुणा मूलातिशयाश्चत्वारः, तद् यथा - अपायापगमातिशयः, ज्ञानातिशयः, पूजातिशयः, वागतिशयश्च । तत्र 'विनिर्जितराग' इत्यनेनापायापगमातिशयमाह् । उक्तं च" वीतरागा जिनाः सर्वे मोहनीयनिवृत्तितः । तद्भेदा हि यतः प्रोक्ताः सर्वे रागादयो मलाः ॥
१५ इति । तथा 'सर्वज्ञ' इत्यनेन च ज्ञानातिशयम् । यथोक्तम्
२०
Do
"संभिन्नं पासंतो लोगमलोगं च सव्वओ सव्र्व्व । तं नत्थि जं न पासइ भूअं भव्वं भविस्सं च ||""
तथा 'त्रिदशनाथकृतपूज' इत्यनेन पूजातिशयम् । उक्तं च“अशोकवृक्षः सुरपुष्पवृष्टि
दिव्यो ध्वनिश्वामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ||""
१ प्रेक्ष्यतामस्यैव पृष्टस्यान्तिमो भागः । २ - ३ 'विशेष्यते' इत्युभयत्र ड-पाठः । ४ पाणिनीये धातुपाठे १९०२ तमः १९०३ तमश्च धातुः । ५ 'ईर गतौ कम्पने च' इति पाणिनीये धातुपाठे १०१८ तमो धातुः । ६ 'विपूर्वस्य' इति पाठो न विद्यते घ-पुस्तके । ७ 'सर्वरागा०' इति ङ-पाठः । ८ अनुष्टुप् ।
९ आर्यायां निबद्धस्यास्य पद्यस्य छाया यथा
१० उपजातिः ।
[ प्रथमः
सम्भिन्नं पश्यन् लोकमलोकं च सर्वतः सर्वम् । तन्नास्ति यन्न पश्यति भूतं भव्यं भविष्यच ॥