________________
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
( स्वो० व्या० )
प्रयोजनादिप्रतिपादनमप्यनर्थकमेव तत एव सम्यक्प्रयोजनाद्यनवगतेः । करणार्थपरिज्ञानपुरस्सरमेव तत् कथमन्यतो भवति ? अतस्तत्प्रतिपादनेऽपि तदाशङ्काऽनिवृत्तिरेवेति ॥
अधिकार: ]
"
एतच्चासारम्, प्रकरणकारो यत एव प्रेक्षापूर्वकारी, अत एव तन्निष्पत्त्यर्थं प्रकरणादौ तदङ्गरूपमिष्टदेवतास्तवमाह । सम्भवत्यत्र विघ्नः प्रागुपात्ताशुभकर्मोदयलक्षणः । स चेष्टदेवतास्तवकरणतः प्रशस्त भावोपपत्तेरुपशाम्यतीति तन्निष्पत्त्यङ्गमेव । एवं च जलानलवत् स्तवविभयोर्विरोध एव । न चेहाप्यतिप्रबलोऽग्निः स्वल्पेन जलेनोपशाम्यति । न चाल्पः स्वयमपि नोपशाम्यति । न चानयोर्न विरोध इति । एवं १० च 'तद्भावेऽपि कचिद् विभभावात् तदभावेऽपि चाभावादिति' वचनमात्रमेतत् ।
प्रयोजनादिप्रतिपादनमपि सार्थकमेव, तत एव सामान्येन सम्यक्प्रयोजनाद्यवगतेस्तथाव्यवहारदर्शनात् । तदवगतौ हि तद्विशेषपरिज्ञानार्थं प्रकरणे प्रवृत्तेः, ततस्तज्ज्ञानभावात् । एवं च ' प्रकरणार्थपरिज्ञानपुरस्सर' मप्येतद् विशेषेण सामान्येनान्यतो भवतीति न दोषः । अतो न 'तत्प्रतिपादनेऽपि तदाशङ्काऽनिवृत्तिरेव', १५ सामान्येन निवृत्तेर्विशेषाशङ्कानिवृत्तेरप्युपायाभिधानात् सदुपायेतरयोर्विशेषसिद्धेः, अन्यथा सकलव्यवहारोच्छेद इत्यलं चसूर्या (१), दिमात्रप्रदर्शनार्थत्वादारम्भस्येति ॥
3
इह चाययाऽऽर्यया इष्टदेवतास्तवमाह । तदन्याभिस्तु सप्रसङ्गं प्रयोजनादीत्यार्यासमूहसमुदायार्थः ॥
अधुनाऽवयवार्थ उच्यते तत्र जयति विनिर्जितराग इति । अत्र जयतीति २० क्रिया भूतपूर्वगत्या तथोपचारत उक्ता तत्प्रकर्षफला प्रच्युत्यपेक्षया वा । अनेकार्थत्वाद् वा धातूनां जयतीति किमुक्तं भवति ? सर्वान् गुणैरतिशेते । 'विनिर्जितः ' विविधम्- अनेकैः प्रकारैः प्रतिपक्षभावनादिभिर्निराधिक्येन अपुनर्जेयतया जितः - विक्षिप्तो रागोऽभिष्वङ्गलक्षणो येन स विनिर्जितरागः । द्वेषोपलक्षणमेतत् । अयमेव 'विशिष्यते - सर्वज्ञ इति । सर्व-सूक्ष्मव्यवहितविप्रकृष्टं वस्तु जानातीति २५ सर्वज्ञः । अयमेव "विशिष्यते - त्रिदशनाथकृतपूज इति । त्रिदशनाधाः
१' प्रकरणार्थज्ञान०' इति क- पाठः । २ द्वितीये पृष्ठे २५ तमायां २६ तमायां च पयां प्रोक्तम् । ३ 'सदुपायैर्विशेष०' इति घ-पाठः । ४ अस्यार्थो न ज्ञायते, कदाचित् 'चर्चया' इति स्यात् । ५ 'सर्वगुणै ०' इति ङ-पाठः । ६-७ 'विशेष्यते' इत्युभयत्र क - ङ-पाठः ।