SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अनेकान्तजयपताकाख्यं प्रकरणम् प्रथमः (मूलम्) तुच्छत्वं पुनरासां प्रदर्शितं पूर्वसूरिभिर्बहुधा । न्यक्षेण सूक्ष्मयुक्तिभिरतिगम्भीरं खशास्त्रेषु ॥ ८॥ तत् तु शठोक्तिविमूढा न जडाः सञ्जानते यतस्तेन । सन्दश्यते समासस्थूरोक्तिशठोक्त्यपाकरणैः ॥९॥ प्रारभ्यते तत इदं सम्यगनेकान्तजयपताकाख्यम् । प्रकरणमुक्तगुणयुतं जडावबोधाय धर्मफलम् ॥ १० ॥ (खोपशा व्याख्या) ॐ नमोऽहते। स्वपरोपकृतये अनेकान्तजयपताकाख्यप्रकरणस्य व्याख्या प्रस्तूयते । इह चादावेवाचार्यः शिष्टसमयपरिपालनाय विघ्नविनायकोपशान्तये प्रयोजनादिप्रतिपादनार्थं चेममार्यासमूहमाह-जयति विनिर्जितराग इत्यादि । तत्र शिष्टानामयं समयो यदुत शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त १५ इष्टदेवतानमस्कारपूर्वकं प्रवर्तन्ते । अयमप्याचार्यों नहि न शिष्ट इति, अतस्तत्समयप्रतिपालनाय तथा श्रेयांसि बहुविघ्नानि भवन्तीति, उक्तं च "श्रेयांसि बहुविनानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति "विनायकाः॥"६ इति । २० इदं च प्रकरणं सम्यग्ज्ञानहेतुत्वात् श्रेयोभूतं वर्तते, अतो मा भूदु विघ्न इति 'विघ्नविनायकोपशान्तये' तथा प्रेक्षापूर्वकारिणः प्रयोजनादिशन्ये न प्रवर्तन्त इति 'प्रयोजनादिप्रतिपादनार्थ' चेति ॥ अत्र कश्चिदाह-प्रकरणकारो हि प्रेक्षापूर्वकारी, स किमर्थं प्रकरणादौ तदसम्बद्धमिष्टदेवतास्तवमाह ? । न च विघ्नविनायकोपशान्तिकरणेन प्रकरणनिष्पत्त्य२५णतया तत्सम्बद्धः, स्तवविघ्नयोविरोधासिद्धेः; तद्भावेऽपि कचिद् विघ्नभावात्, तदभावेऽपि चाभावादिति । . ....................... ... १ श्रीसिद्धसेनदिवाकरप्रभृतिभिरित्यर्थः । एतदर्थ समीक्ष्यतां नवमं पृष्ठम् । २ विघ्नानां विघ्नेषु वा विनायकः-मुख्यो विनविनायकः-महाविघ्नस्तस्योपशान्तये-नाशायेत्यर्थः । विघ्नान् विनेतुं शीलमस्येति विघ्नविनायकस्तस्योपशान्त्यै-तुष्टय इत्यप्यर्थः स्यात् । ३ दशकात्मकम् । ४ 'जयति विनिर्जितराग इत्यादि' इति पाठो घ-पुस्तके नास्ति । ५ अत्र 'विनायक' शब्दस्य विघ्न इत्यर्थः, न तु मुख्यो गणपतिर्वा । ६ अनुष्टुप् ।
SR No.008405
Book TitleAnekantajay patakakhyam Prakaranam Part 1
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherOriental Research Institute Vadodra
Publication Year1940
Total Pages453
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy