________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीय विवरणयुतम्
(मूलम्) अखिलविकल्पज्ञानभ्रान्ततावादिनश्च तत्सामोत्थं वचनमपि तागेवेति सुस्थिता तत्तत्वनीतिः। न हि भ्रान्तमात्मनो भ्रान्ततामवैति, द्विचन्द्रज्ञानादावात्मनि भ्रान्तताऽधिगमव्यपोहेन चन्द्रद्वया- ५ द्यधिगतिदर्शनात्, तत्स्थामोपजातवचसोऽपि स्वभ्रान्तताभिधानपरित्यागेन चन्द्रद्वयाभिधानादिति सकलमेव शास्त्रज्ञानाभिधानं भ्रान्तिमात्रमिति कथं ततस्तत्त्वनिश्चय इति चिन्त्यम् । तथाहि-अस्य नित्यात्मादिविकल्पवत् कृतकत्वादि लिङ्गद्वारायाता अनित्याऽनात्मादिविकल्पा अपि भ्रान्ता एवेति कथं तेभ्यस्तनिश्चितिः ? । निश्चिती १० वा कथं न नित्यादावपि, तद्विकल्पानामपि ततो भावात् ॥ स्यादेतत् स्खलक्षणदर्शनाहितवासनाकृतविप्लवरूपाः सर्व एव
(स्वो० व्या) इत्थमनम्युपगमे दोषमाह-अखिलेत्यादि । अखिल विकल्पज्ञानभ्रान्ततावांदिनश्च-वादिनः । किमित्याह-तत्सामोत्थं-निःशेषविकल्पज्ञानभ्रान्तता- १५ सामोत्थं वचनमपि तागेव-भ्रान्तमेव इति-एवं सुस्थिता तत्तत्त्वनीतिः ताभ्यां भ्रान्तविकल्पज्ञान-वचनाभ्यां तत्त्वनीतिरित्युपहसति, न सुस्थितेत्यर्थः। कथमित्याह-न हीत्यादि । न यस्माद् भ्रान्तं, ज्ञानमिति प्रक्रमः, आत्मनो भ्रान्ततामवैति। कुत इत्याह-द्विचन्द्रज्ञानादौ 'आदि'शब्दान्मायाजलज्ञानग्रहः आत्मनिखरूपे भ्रान्तताऽधिगमव्यपोहेन चन्द्रद्वयाद्यधिगतिदर्शनात् 'आदि'-२० शब्दान्मायाजलग्रहः, तत्स्थामोपजातवचसोऽपि-भ्रान्तज्ञानसामोपजातवचनस्यापि स्वभ्रान्तताभिधानपरित्यागेन चन्द्रयाद्यभिधानादिति-- एवं सकलमेव शास्त्रज्ञानाभिधानं भ्रान्तिमात्रमिति कृत्वा कथं ततःशास्त्रज्ञानाभिधानात् तत्त्वनिश्चय इति चिन्त्यम् । नैव तत्त्वनिश्चय इति । एतद्भावनायैवाह-तथाहीत्यादि । तथाहि-अस्य-अखिलविकल्पज्ञानभ्रान्ततावा- २५ दिनः नित्यात्मादिविकल्पवदिति निदर्शनम् , कृतकत्वादिलिङ्गद्वारायाता अनित्या-ऽनात्मादिविकल्पा अपि भ्रान्ता एव-नाम्रान्ता इति-एवं कथं तेभ्यः-प्रान्तविकल्पेभ्यस्तनिश्चिति:-अनित्या-ऽनात्मादिनिश्चितिः १ । निश्चितौ वा तेभ्यः-अनित्या-ऽनात्मादेः कथं न नित्यादावपि निश्चितिः? । कुत इत्याहतद्रिकल्पानामपि-नित्यात्मादिविकल्पानामपि ततः-वस्तुनो भावात् ॥ ३० स्यादेतदित्यादि । स्यादेतत्-अथैवं मन्यसे स्खलक्षणदर्शनेन आहिता १ 'वादिनश्च किमित्याह' इति घ-पाठः ।
अनेकान्त०३२