________________
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीया
' (मूलम्) प्रमाणाभावात्, प्रत्यक्षस्य खलक्षणविषयत्वेन तत्राप्रवृत्तेः, अनुमानस्याप्यनुपलब्धिलक्षणप्राप्तार्थविषयत्वात् , तस्य च तदभावाभ्यु५पगमात् । न हि साधारणं रूपमुपलब्धिलक्षणप्राप्तमिष्यते भवद्भिः, तदवस्तुत्वप्रतिज्ञानात् अनीदृशानुपलब्धेश्वाभावनिश्चायकत्वानुपपत्तेः। एतेन तद्वाधकप्रमाणप्रवृत्तिः प्रत्युक्ता, उक्तवत् प्रत्यक्षादेः तद्बाधकत्वायोगात् । युक्त्या तदयोगो बाधक इति चेत्, न, विकल्पानुपपत्तेः । युक्तिर्हि प्रमाणमप्रमाणं वा स्यात् । प्रमाणं चेत्, न, प्रत्यक्षादेरन्यदित्यत्र 'चोक्तो दोषः । अप्रमाणत्वे तु तद्बाधकत्वानुपपत्तिः, अतिप्रसङ्गात् ॥
(स्वो० व्या०) तावत् खलक्षणविषयत्वेन हेतुना तत्र-तथाविधग्राह्याभावे अमवृत्त
अनुमानस्यापि-अनुपलब्धिरूपस्य उपलब्धिलक्षणप्राप्तार्थविषयत्वात्। १५ ततः किमित्याह-तस्य-तथाविधग्राह्यस्य तदभावाभ्युपगमात्-उपलब्धिलक्षण
प्राप्तार्थविषयत्वाभावाभ्युपगमात् । एतद्भावनायैवाह-न हि साधारणं रूपं विकल्पग्राह्यम् उपलब्धिलक्षणप्राप्तमिष्यते भवद्भिः । कुत इत्याहतदवस्तुत्वप्रतिज्ञानात् तस्य-साधारणरूपस्यावस्तुत्वप्रतिज्ञानात् अनीशा
नुपलब्धेश्च-अनुपलब्धिलक्षणप्राप्तानुपलब्धेश्च । किमित्याह-अभावनिश्चायक२० त्वानुपपत्तेस्तथाऽभ्युपगमात् । एतेनेत्यादि । एतेन-अनन्तरोदितेन तथाविधग्राह्याभावे प्रमाणाभावेन । किमित्याह-तबाधकप्रमाणप्रवृत्तिः प्रत्युक्तातस्मिन्-तथाविधग्राह्ये बाधकप्रमाणवृत्तिनिराकृता । कुत इत्याह-उक्तवत्-यथोक्तं तथा प्रत्यक्षादेः-प्रत्यक्षानुमानद्वयस्य तद्वाधकत्वायोगात्-तथाविधग्राह्यबाधकत्वायोगात् , युक्त्या तदयोगः-तथाविधग्राह्यायोगः, साधारणरूपायोग २५ इत्यर्थः बाधकः । इति चेत् , एतदाशझ्याह-न, विकल्पानुपपत्तेः । अनुपपत्तिश्च-युक्तिर्हि प्रमाणमप्रमाणं वा स्यात् । 'किश्चात इत्युभयथाऽपि दोष इत्याह-प्रमाणं चेत्, न प्रत्यक्षादेरन्यदित्यत्र चोक्तो दोषः-'प्रत्यक्षस्य स्खलक्षणविषयत्वेन तत्राप्रवृत्ते'रित्यादिः । अप्रमाणत्वे तु युक्तेः किमित्याह
तद्वाधकत्वानुपपत्तिः-तथाविधग्राह्यबाधकत्वानुपपत्तिः । कुत इति आह३० अतिप्रसङ्गात् खलक्षणस्यापि युक्तिबाधितत्वोपपत्तेः अविषयेऽपीयं प्रवर्तत इति भावना । एवं विकल्पज्ञानस्यापि कस्यचित् प्रामाण्यमङ्गीकर्तव्यमित्यैदम्पर्यम् ॥ १ 'चोकदोषः' इति क-पाठः। २ 'किश्चातः १ उभय.' इति घ-पाठः ।