________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् २४७
(मूलम्) भावात् स्वरूपस्यैव वेदनात् । तद्वहिःस्थतुल्यरूपमित्यदोष इति चेत्, केयं तत्तुल्यरूपतेति वाच्यम् । किं तत्साधारणरूपभावः उताहो तत्तद्रहणस्वभावतेति? । न तावत् साधारणरूपभावः, चेतनाचेतन- ५ त्वेन तद्वैलक्षण्यसिद्धेः, सामान्यवेदनेन तदप्रामाण्यप्रसङ्गाच । तत्तद्ग्रहणस्वभावतातदङ्गीकरणे च विकल्पज्ञानेऽपि तुल्यः परिहारः, तस्यापि तद्ग्रहणस्वभावताऽभ्युपगमात् । तथाविधनायाभावादस्य कुतस्तद्रहणखभावतेति चेत्, न, तथाविधग्राह्याभावे
(स्वो० व्या०) तेनापि-अविकल्पकेन वेद्यमानस्य बहिरभावात् । अभावश्च स्वरूपस्यैव वेदनात् । तदित्यादि । तत्-अविकल्पकं वेद्यमानबहिःस्थतुल्यरूपं, विषयतुल्यरूपमित्यस्माददोषः । इति चेत्, एतदाशङ्कयाह-केयं तत्तुल्यरूपताबहिःस्थतुल्यरूपतेति वाच्यम् । किं तत्साधारणरूपभावा-बहिःस्थसामान्यरूपभावोऽविकल्पकस्य उत तद्ग्रहणखभावता-बहिःस्थग्रहणस्वभावता १५ इति । किञ्चातः ? उभयथाऽपि दोषः । तथा चाह-न तावत् साधारणरूपभावः तत्तुल्यरूपता । कुत इत्याह-चेतनाचेतनत्वेन हेतुना । तद्वैलक्षण्यसिद्धेः तयोः-अविकल्पक-बहिःस्थयो_लक्षण्यसिद्धेः ।
दोषान्तरमाह-सामान्यवेदनेन हेतुना साधारणरूपभावतः तदप्रामाण्यप्रसङ्गाच-अविकल्पकस्याप्रामाण्यप्रसङ्गाच न तत्साधारणरूपभावस्तत्तुल्यरूपतेति । २० तत्तद्ग्रहणस्वभावतातदङ्गीकरणे च तस्य-अविकल्पकस्य तद्ग्रहणस्वभाव. ता-बहिःस्थग्रहणस्वभावता तस्यास्तदङ्गीकरणं-तत्तुल्यरूपताऽङ्गीकरणमिति विग्रहः, तस्मिन् । किमित्याह-विकल्पज्ञानेऽपि तुल्यः परिहारः तत्तदहिःस्थतुल्यरूपमित्ययम् । कुत इत्याह-तस्यापि-विकल्पज्ञानस्य तद्ग्रहणस्वभावताऽभ्युपगमात्-बहिःस्थग्रहणखभावताऽभ्युपगमात् । तथाविधेत्यादि । तथाविध-२५ ग्राह्याभावात्-विकल्पज्ञानग्राह्याभावात् अस्य-विकल्पज्ञानस्य कुतस्तद्ग्रहणखभावता-बहिःस्थग्रहणस्वभावता? । इति चेत्, एतदाशङ्कयाह-न,तथाविधग्राह्याभावे-विकल्पज्ञानग्राह्याभावे प्रमाणाभावात् । अभावश्च प्रत्यक्षस्य
(विवरणम्) (२३-२४) तत्तद्वहिःस्थतुल्यरूपमिति । तत्-विकल्पज्ञानं तेन-बहिःस्थेन ३० पदार्थेन तुल्यरूपं-तदाकारमिति ।।
१ 'खरूपस्य वेदनात्' इति क-पाठः । २ तावत् तत्साधारण' इति क-पाठः । ३ 'प्रसङ्गत्वेन तत्' इति क-पाठः।