________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
वस्तूनां सर्वबुद्धैः सदा ग्रहणात् तेषां सर्वज्ञत्वात्, अन्यथा तत्तवायोगात्, एकसन्तानापेक्षया च गृहीतग्राहिज्ञानासम्भव एव, ५ सर्वेषां सर्वदाऽगृहीतग्रहणादिति ॥
२४६
3
[ तृतीयः
स्वादेतन्न तत्वतो गृहीतग्राहित्वेनास्याप्रामाण्यम् अपि त्ववि - षयत्वेनेति । कथमयमविषय इति वाच्यम् । यदनेन वेद्यते न तदस्तीति चेत्, क तन्नास्तीति । किं तत्रैवोच्यते उताहो बहिरिति ? | यदि तत्रैव कथं वेद्यते, वेद्यमानं वा कथं न तत्रेति चिन्त्यम् । अथ 1. बहिः, अविकल्पकेऽपि समानः प्रसङ्गः तेनापि वेद्यमानस्य बहिर( स्वो० व्या० )
5
असम्भवश्च सर्ववस्तुनां - नीलादीनां सर्ववुद्धैः सदा ग्रहणात् । ग्रहणं च तेषां - बुद्धानां सर्वज्ञत्वादिति, अन्यथा तत्तत्त्वायोगात् तेषां सर्वज्ञत्वायोगात् । एक सन्तानेत्यादि । एकसन्तानापेक्षया च गृहीतग्राहिज्ञानासम्भव १५ एव तस्यार्थस्य च क्षणिकत्वात् सर्वेषां - ज्ञानानां सर्वदा सर्वकालम् अगृहीतग्रहणाद् द्वयोरपि क्षणिकत्वेनेति यद्वा तदभावे भावादभिधानमात्रं ग्रहणमित्यगृहीतग्रहणमिति ॥
स्यादेतन्न तत्त्वतो गृहीतग्राहित्वेन हेतुना अस्य - विकल्पस्य अप्रामाtयम्, अपि त्वविषयत्वेनेति । एतदाशङ्कयाह- कथमयं - विकल्पोऽविषय १० इति वाच्यम् । यदनेन वेद्यते विकल्पेन न तदस्तीत्यविषयः । इति चेत्, एतदाशङ्कयाह- क तन्नास्ति यदनेन वेद्यते ? किं तत्रैव विकल्पे उत बहिरिति ? | यदि तत्रैव - विकल्पे एव नास्ति, कथं तेन वेद्यते, वेद्यमानं वा कथं न तत्र विकल्प इति चिन्त्यम् |
द्वितीयं विकल्पमधिकृत्याह - अथ बहिर्यदनेन वेद्यते न तदस्तीति । एतदा२५ शङ्कयाह- अविकल्पकेऽपि समानः प्रसङ्गः अविषयत्वप्रसङ्गः । कथमित्याह( विवरणम् )
(१६-१७) तदभावे भावादभिधानमात्रं ग्रहणमित्यगृहीतग्रहणमितीति । तस्य विषयस्याभावे - विनाशे भावात्-उत्पादात् ज्ञानस्य किमित्याह-अभिधानमात्रम्अभिधानमेव । केवलं किमित्याह - ग्रहणमिति । एतत् स्वयमेव वृत्तिकृद् व्याचष्टे - अगृही३० तग्रहणमिति । अयमभिप्रायः - यदा ज्ञेयवस्तुनो विनाशे ज्ञानमुत्पद्यते, तदा ज्ञानकाले वस्त्वभावादेव गृहीतप्राहित्वासम्भवेन वचनमात्रमेवैतद् यदुतागृहीतग्रहणमिति ॥
१ 'समाऽवगृहीत' इति क-पाठः ।