________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् २४५
(मूलम् ) धर्मोपलब्धुरेवासत्क्षयोपशमभावतो भावात्, अन्यथोक्तवत् तद. योगादिति ॥
यच्चोच्यते-"गृहीतग्राहित्वाद् विकल्पोऽप्रमाणम्” इत्येतदप्ययु: ५ क्तम् , स्वमतविरोधात्, निर्विकल्पकज्ञानेन खलक्षणस्य गृहीतत्वाद् विकल्पस्य तद्राहितत्वानुपपत्तेः तत्प्रतिभासशून्यत्वात्। एवमपि तत्तथाताऽभ्युपगमेऽतिप्रसङ्गात्, नीलविकल्पस्य पीतग्राहित्वापत्तेः पारम्पर्येण तत्तजनकत्वाविशेषात् उपलब्धपीत-नीलद्रष्टुरपि तद्भावादिति ॥
न च गृहीतग्राहि ज्ञानमप्रमाणमेव, एकत्र नीलादावनेकप्रमातः ज्ञानानां प्रमाणत्वाभ्युपगमात् तेषां चान्योन्यं गृहीतग्राहित्वात्, अन्यथा तद्रहणानुपपत्तेः, तथाऽगृहीतग्राहिज्ञानासम्भवात् सर्व
(स्वो व्या०) धर्मोपलब्धुरेव प्रमातुर्नान्यस्य असत्क्षयोपशमभावतः-असत्क्षयोपशमभावेन १५ भावात्, अन्यथा-एवमनभ्युपगमे उक्तवत्-यथोक्तम्-'शुक्तिकाया अध्यक्षज्ञानेन नीलादिवत् तत्त्वेनैव ग्रहणात्' इत्यादि, तथाऽयोगादिति ॥
यचोच्यते परैः-"गृहीतग्राहित्वाद् विकल्पोऽप्रमाणम्" इत्येतदप्ययुक्तम् । कथमित्याह-खमतविरोधात् । विरोधश्च निर्विकल्पकज्ञानेन स्खलक्षणस्य गृहीतत्वाद् विकल्पस्य तद्ग्राहित्वानुपपत्तेः-स्खलक्षणग्राहि-२० त्वानुपपत्तेः । अनुपपत्तिश्च तत्प्रतिभासशून्यत्वात्, खलक्षणाकारशून्यत्वादित्यर्थः । एवमपि-तत्प्रतिभासशून्यत्वेऽपि सति तत्तथाताऽभ्युपगमे--विकल्पस्य तद्ग्राहित्वाभ्युपगमे अतिप्रसङ्गात् । अतिप्रसङ्गश्च नीलविकल्पस्य पीतग्राहित्वापत्तेः । नासौ पारम्पर्येणापि तजन्य इत्याशङ्काऽपोहायाह-पारम्पर्येण तत्तजनकत्वाविशेषात् तस्य-पीतस्य नीलविकल्पजनकत्वाविशेषात् । एतद्भाव-२५ नायैवाह-उपलब्धपीत-नीलद्रष्टुरपि-प्रमातुः तद्भावात्-नीलविकल्पभावात् : तदप्ययुक्तमिति स्थितम् ॥
दूषणान्तरमाह न चेत्यादिना । न च गृहीतग्राहि ज्ञानमप्रमाणमेवएकान्तेन भवतः । कुत इत्याह-एकत्र नीलादावनेकप्रमातृज्ञानानां प्रमाणस्वाभ्युपगमात् परेणापि तेषां च-अधिकृतज्ञानानां अन्योन्य-परस्परं गृहीत ३० ग्राहित्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-अन्यथा तहणानुपपत्तेः-अधिकृतनीलादिग्रहणानुपपत्तेः । तथेत्यादि । तथाऽगृहीतग्राहिज्ञानासम्भवात। १ 'लन्धेरेवा.' इति क-पाठः। २ २१०तमे पृष्ठे ।