________________
२४४
अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः
(मूलम्) भवात्; एवमपि तत्कल्पनेऽतिप्रसङ्गात् तदन्तरापत्तेनिराकरणायोगात् अननुभवाविशेषादिति तदेकत्वपरिणामनिवन्धन एवायम् । ५ तेषामेवैकानेकात्मकत्वाद् भेदाभेदभावात् तथाखभावत्वात् विरोधानुपपत्तेः, प्रतीतिसिद्धत्वात् बाधाभावादिति । सद्रव्याद्यनेकस्वभावे वस्तुनि वस्तुमानग्राधेवावग्रहकल्पमविकल्पकमङ्गीकर्तव्यम्, अन्यथोक्तदोषानतिवृत्तिः । एवम्भूते चास्मिन्नावयोरविवाद एव, एवंविधावग्रहस्यास्माभिरप्यभ्युपगतत्वात्। न चात्र कश्चिद् दोषः, १० अपि तु शुक्तिकादावपि कचिद् रजतादिनिश्चयस्य न्यायत एवापश्या गुणः, तस्य यवग्रहोत्तरकालमीहाप्रवृत्तस्य तथाविधसमान
(खो० व्या) एवमपि-तथाऽननुभवेऽपि तत्कल्पने-सदादिभिन्नावयविकल्पनेऽतिप्रसङ्गात् ।
अतिप्रसङ्गश्च तदन्तरापत्ते:-तत्रैवावयव्यन्तरापत्तेः । आपत्तिश्च निराकरणा१५ योगात् तदन्तरस्य । अयोगश्च अननुभवाविशेषाद् द्वयोरपीति, इति-एवं
तदेकत्व परिणामनिवन्धन एवायम् , प्रक्रमात् सन्मृद्रव्याकारकत्वपरिणामनिबन्धन एवायम् , एकोऽयमिति व्यवसायः । तेषामेव-सदादीनामेकानेकास्मकत्वात् । एतच्च भेदाभेदभावात् । अयं च तथास्वभावत्वात् । तथास्वभावत्वे च विरोधानुपपत्तेः । अनुपपत्तिश्च प्रतीतिसिद्धत्वात् । नहि २० प्रतीतिरेव सिद्धौ निमित्तमित्याशङ्काऽपोहायाह-बाधाभावादिति 'तदेकत्वपरिणामनिबन्धन एवायं' इत्येवं सहव्याधनेकखभावे वस्तुनि । किमित्याह-वस्तुमात्रग्राह्येव अवग्रहकल्पमविकल्पकमङ्गीकर्तव्यम् । किमित्याह-अन्यथोक्तदोषानतिवृत्तिः, उक्तदोषाः "न्यायानुभवविरोधात्' इत्येवमादयस्तदनिवृत्तिः । एवम्भूते चास्मिन्-अविकल्पके किमित्याह-आवयोः-तव मम च २५ अविवाद एव । कुत इत्याह-एवंविधावग्रहस्य अविकल्पकस्य अस्माभिरभ्युपगतत्वात् । न चात्र-अभ्युपगमे कश्चिद् दोषः, अपि तु शुक्तिकादावपि 'आदि'शब्दान्मरीचिकाग्रहः, कचिद् रजतादिनिश्चयस्य 'आदि'शब्दात् जलनिश्चयग्रहः न्यायत एवापत्त्या गुणः। न्यायत एवापत्तिमाह तस्येत्यादिना। तस्य हि-शुक्तिकादौ रजतादिनिश्चयस्य अवग्रहोत्तरकालमीहाप्रवृत्तस्य ३० सतः । कस्सेत्याह-तथाविधसमानधर्मोपलब्धुरेव-शुक्तिकादि-रजतादिसमान
१ 'कर्तव्यमित्यन्यथोक्त' इति ग-पाठः । २ प्रेक्ष्यता २३५ तमं पृष्ठम् ।