________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
२४३ (मूलम्) बाधितेयमिति चेत्, सदतिरिक्ततगृहे का प्रतीतिः। न तेभ्य एकत्वबुद्धिरिति चेत्, ततः किमिति वाच्यम्। अस्ति चेयमिति चेत्, न खल्वस्यां विगानम् , य एतन्निमित्तः स स तेभ्योऽन्य इति चेत्, ५ सङ्ख्यायास्तद्भावप्रसङ्गः। न सा तदनाश्रितेति चेत्, एवमपि तत्त्वतोऽन्यैव । यदि नामैवं ततः किमिति चेत्, तन्निमित्तैकबुद्धिः। सा तद्विशेषणभूतेति चेत्, कथमेतद् विनिश्चीयत इति ? । एकोऽयमिति व्यवसायादिति चेत्, नासौ सदादिभिन्नप्रतिभासीति, तथाऽननु(स्वो० व्या०)
. ननु रसादिग्रहणापत्तिः रसादेरपि घटवदरूपादित्वात् , सर्वेन्द्रियं चैवं द्रव्यं प्राप्नोति, रसादिप्रतीतेरपि तद्गामित्वेन तदवसानत्वादिति भावनीयम् । प्रतीतिबाधितेयं-रसादिग्रहणापत्तिः । इति चेत्, एतदाशयाह-तदतिरिक्ततनहे, प्रक्रमाद् रूपादिव्यतिरिक्तघटग्रहे का प्रतीतिः ? ननु किमनया ? न तेभ्यः-रूपादिभ्यः एकत्वबुद्धिः,अनेकत्वादमीषाम् । इति चेत्, एतदाशयाह- १५ ततः किमिति वाच्यम्। किमपि अत्र अस्ति च इयम्-एकत्वबुद्धिः। इति चेत्, एतदाशङ्कयाह-न खलु अस्याम्-एकत्वबुद्धौ विगानं यः कश्चिदेतन्निमित्तम् , एतस्याः-एकत्वबुद्धेरालम्बनं स स इति स घटः तेभ्यः-रूपादिभ्योऽन्यः। इति चेत्, एतदाशङ्कयाह-सङ्ख्यायाः-एकसङ्ख्याया एकत्वबुद्धिनिमित्तत्वेन तद्भावप्रसङ्गः-घटभावप्रसङ्गः। न सा-सङ्ख्या तदनाश्रिता-घटानाश्रिता । इति २० चेत्, एतदाशङ्कयाह-एवमपि तदाश्रितत्वेऽपि तत्वतः-परमार्थेन अन्यैव । सन्मृदूपाकारेभ्य इति । यदि नामैवं ततः किम् ? । इति चेत्, एतदाशङ्कयाहतन्निमित्ता-सदादिभिन्नसङ्ख्यानिमित्ता एकत्वबुद्धिः। सा-सङ्ख्या तद्विशेषणभूता-प्रस्तुतैकावयविविशेषणभूता । इति चेत्, एतदाशङ्कयाह-कथमेतद् विनिश्चीयते यदुत सा तद्विशेषणभूतेति ?। एकोऽयमिति व्यवसायादिति २५ चेदू विनिश्चीयत इति । एतदाशङ्कयाह-नासौ-व्यवसायः सदादिभिन्नप्रतिभासीति । कुत इत्याह-तथा-सदादिभिन्नप्रतिभासित्वेन अननुभवात् ।
(विवरणम्) घटग्रहणावसानत्वात् । अयमभिप्रायः-रूपं चक्षुषा गृह्यते स्पर्शश्च स्पर्शनेन । एतौ 'च द्वावपि घटप्रतिबद्धौ । अतस्तयोञ्जनमानयोर्घटो ज्ञायते एव, घटज्ञानावसानत्वाद् ३० रूपादिबोधस्य ॥ १ 'भस्ति इयमिति' इति घ-पाठः। २ 'सार्वेन्द्रियं' इति घ-पाठः ।