________________
२४२ .. अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीयः (मूलम्) तत्तवृत्तावपि तत्तद्रूपताऽनापत्तेः, इत्थमपि तद्रहणे इन्द्रियाणां
खधर्मातिक्रमात् । कथमतिक्रम इति चेत्, चक्षुरादेररूपादिग्रह५ णात् । एवमपि को दोष इति चेत्, ननु रसादिग्रहणापत्तिः, प्रतीति
(खो० व्या०) प्रसङ्गश्च अरूपाद्यात्मकत्वात् । एतच्च सन्मृद्रपाकारेभ्योऽन्यत्वाभ्युपगमेन; उपन्यासश्चैवम्-चक्षुर्ग्रहणानुगुण्येन । तत्तवृत्तावपीत्यादि । तेषां-सन्मृद्रपाकाराणां
तस्मिन्-घटे वृत्तावपि सामान्य-द्रव्य-गुणानां यथासम्भवं तद्वृत्त्यभ्युपगमेन द्रव्यवृत्ती १० कारणद्रव्येषु स एव वर्तते इति कृत्वा । किमित्याह-तत्तद्रूपताऽनापत्तेः तस्य-घटस्य
तद्रूपताऽनापत्तेः-सन्मृद्रपाकाररूपताऽनुपपत्तेः । इत्थमपीत्यादि । इत्थमपि-एवमपि तत्तद्रूपताऽनापत्तावपि तद्ग्रहणे-घटग्रहणेऽभ्युपगम्यमाने । किमित्याह-इन्द्रियाणां खधर्मातिक्रमः-स्वमर्यादापरित्यागः । कथमतिक्रमः ? । इति चेत्,
एतदाशझ्याह-चक्षुरादेः 'आदि शब्दात् त्वगिन्द्रियग्रहः, अरूपादिग्रहणात्, १५ घटादिग्रहणादित्यर्थः । एवमपि को दोष इति चेत्, द्विविधं हि द्रव्यं दार्शनं स्पार्शनं च, रूपादिप्रतीतेस्तगामित्वेन तदवसानत्वादित्यभिप्रायः । एतदाशङ्कयाह
(विवरणम्) (७-८) उपन्यासश्चैवम्-चक्षुर्ग्रहणानुगुण्येनेति । अरूपाद्यात्मकत्वादित्यत्र अस्पर्शाद्यात्मकत्वादित्याद्युपन्यासं परिहृत्य यदित्थमुपन्यासं करोति, तच्चक्षुर्ग्रहणानु२० गुण्येनेत्यर्थः ।।
(९) सामान्य-द्रव्य-गुणानां यथासम्भवं तद्वृत्त्यभ्युपगमेनेति । सत्त्वं सामान्यं, घटरूपा मृद् द्रव्यम् , रूपाकारस्तु गुणः । तत एतेषां त्रयाणां यथासम्भवंयथायोग तस्मिन्-घटे वृत्तेः-वर्तनस्याभ्युपगमेन-अभ्युपगमाद् वैशेषिकेण यथा
सम्भवमिति । अस्यायमभिप्रायः-यदा घटे सत्ता-गुणयोवृत्तिश्चिन्त्यते, तदा सत्ता-गुणौ २५ तत्र वर्तेते; यदा तु द्रव्यस्य वृत्तिस्तत्र चिन्त्यते, तदा घटलक्षणमवयविद्रव्यं स्वारम्भकेषु अवयवेषु वर्तते । अत एवाह-(९-१०) द्रव्यवृत्तौ कारणद्रव्येषु स एव वर्तत इति कृत्वेति । द्रव्यस्य वृत्तौ चिन्यमानायां कारणद्रव्येषु-परमाणुलक्षणेषु स एव-घट एव वर्तत इति कृत्वा यथासम्भवं तद्वृत्त्यभ्युपगमः॥ ... (१५-१६) दार्शनं स्पार्शनं चेति। दर्शनाभ्यां-लोचनाभ्यां गृह्यते यत् तद् दार्शनं, ३० स्पर्शनेन गृह्यत इति स्पार्शनम् । उपलक्षणत्वादितरेन्द्रियग्राह्यमपि । ततः किमित्याह(१६) रूपादिप्रतीतेस्तगामित्वेन तदवसानत्वादिति । रूपादिप्रतीते:-रूपरसाद्यवबोधलक्षणायास्तद्गामित्वेन-घटगामित्वेन, घटप्रतिबद्धत्वेनेत्यर्थः । तदवसानत्वात्