________________
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
२४१ (मूलम्) तत्सत्त्वस्य च तत्वात् न स्पर्शसत्वस्य, चक्षुषाऽप्युपलब्धेः स्पर्शात् तत्सत्त्वभेदप्रसङ्गात् रूपेऽप्यनुगमोपपत्तेः, अन्यथाऽनुभवविरोधात् । न चोभयसत्त्वस्य, तदेकत्वायोगात् इन्द्रियसङ्करप्रसङ्गात्, ५ लोकविरोधापत्तेरसमञ्जसत्वादिति । न च तयोराकारयोर्भेद एव, तथाप्रतीत्यभावात् तत्वत उभयायोगात् तत्सत्त्वैकत्वक्षतेस्तथा चाभ्युपगमविरोधादिति ॥ न चैतेभ्योऽन्य एव घटा, अग्रहणप्रसङ्गात् अरूपाद्यात्मकत्वात्,
(स्वो० व्या) सत्वस्य च-रूपसत्त्वस्य च तत्त्वात्-रूपत्वात् । एवं न स्पर्शसत्त्वस्य असावाकार इति गम्यते । कुत इत्याह-चक्षुषाऽप्युपलब्धेः कारणात् । ततः किमित्याहस्पर्शात् सकाशात् तत्सत्त्वभेदप्रसङ्गात्-स्पर्शसत्त्वभेदप्रसङ्गात् । प्रसङ्गश्व रूपेऽप्यनुगमोपपत्तेः । इत्थं चैतदित्याह-अन्यथा-एवमनभ्युपगमे अनुभवविरोधात् । चक्षुषा तदुपलब्धिरित्यनुभवः । न चोमयसत्त्वस्य-रूप-स्पर्श-१५ सत्त्वस्य, असावाकार इति प्रक्रमः । कुत इत्याह-तदेकत्वायोगात् तस्य-आकारसैकत्वायोगात् , उभयाव्यतिरेकेण योगेऽपि इन्द्रियसङ्करप्रसङ्गाद्' विषयसाङ्कर्येण, सङ्करे च लोकविरोधापत्तेः एवमसमञ्जसत्वादिति । न चेत्यादि । न च तयोराकारयोः-चक्षुस्त्वग्ग्राह्ययोर्भेद एव-एकान्तेन । कुत इत्याह-तथाभेदगर्भतया प्रतीत्यभावात् स्पर्शनादपि 'सोऽयं यो दृष्टः' इत्यवगमात् । तथा २० तत्त्वत उभयायोगात् वदभ्युपगमेन । तथा चाह-तत्सत्त्वैकत्वक्षतेः, घटसत्त्वैकत्वक्षतेरित्यर्थः । तथा च-एवं च अभ्युपगमविरोधाद् वस्तुनोऽनेकस्वभावत्वापत्त्या 'न च तयोराकारयोर्भेद एव' इति स्थितम् । एवं बौद्धमतवक्तव्यतामधिकृत्यैतदुक्तम् ।।
अधुना वैशेषिकमतमुररीकृत्याह-न चैतेभ्य इत्यादि । न चैतेभ्यः-सन्मृद्पा- २५ कारेभ्यः अन्य एव घट एकान्तेन । कुत इत्याह-अग्रहणप्रसङ्गाद् घटस्य ।
(विवरणम्) (१४) रूपेऽप्यनुगमोपपत्तेरिति । यदि हि स दृश्यमान आकारः स्पर्शसम्बन्धितयाऽभ्युपगतश्चक्षुरिन्द्रियग्राह्यः स्यात् , तदा तस्य रूपेऽपि अनुगमस्य तद्रूपतापत्तिः-लक्षणस्योपपत्तिः-घटना स्यात् । ततः स्पर्शात सकाशात् सत्त्वस्य भेदः स्यात् , ३० रूपखभावत्वात् स्पर्शसत्त्वस्येत्यर्थः । न चैतद् दृष्टमिष्टं वा ॥ १ 'तदभ्युप.' इति घ-पाठः । २ 'चैवमेवाभ्युप०' इति क-पाठः।
अनेकान्त०३१