________________
२४०
अनेकान्तजयपताकाख्यं प्रकरणम् [सृतीयः
(मूलम्) अविगानत एवैकत्र सन्मृद्रूपाकारवेदनात्, सन्मात्रादेवैतदनुपपत्तेरतिप्रसङ्गात्, रूपमात्राद् रूपरसादिनिश्चयापत्तेः । न च ५ सत्त्वाकारयोरप्यभेद एव, अनेकदोषप्रसङ्गात् । तथाहि घटसत्वं तावदेकं तस्य मृद्रूपाद्यात्मकत्वे एकत्वहानिः तदनभ्युपगमे प्रतीतिबाधा । तथैकत्वेऽपि कस्यासावाकार इति वाच्यम् । न रूपसत्त्वस्य, त्वगिन्द्रियेणापि ग्रहणात्, तस्य च रूपाविषयत्वात् तथाऽप्रतीते,
(स्वो० व्या०) १० ग्रहोत्तरकालं अविगानतः-अविगानेनैव एकत्र वस्तुनि । किमित्याह-सन्मृद्
रूपाकारवेदनात् । यदि नामैवं ततः किमित्याह-सन्मात्रादेव एकस्वभावात् एतदनुपपत्तेः-सन्मृद्रपाकारवेदनानुपत्तेः । अनुपपत्तिश्चातिप्रसङ्गात् । अतिप्रसङ्गश्च रूपमात्रात् सकाशाद् रूपरसादिनिश्चयापत्तेः, सन्मात्रादिव विजातीयनिश्चयन्यायेन ॥ ७५ इहैव दोषान्तरमधिकृत्याह-न चेत्यादि । न च सत्वाकारयोरपीहाधिकृतयोरभेद एव-एकान्तेन । कुत इत्याह-अनेकदोषप्रसङ्गात्। एनमेवाह तथाहीत्यादिना । तथाहि-"घटसत्त्वं तावदेकं निरंशं खलक्षणम्" इत्यविचारितरमणीयेन भवदभ्युपगमेन तस्य मृद्रूपाद्यात्मकत्वे सकललोकानुभवसिद्धेऽभ्युपगम्यमाने एकत्वहानिः मृदादिशाबल्येन, तदनभ्युपगमे-मृद्रपाद्यात्मकत्वानभ्यु२० पगमे प्रतीतिवाधा-मृद्पादिप्रतीतेः । तथैकत्वेऽपि, सत्त्वाकारयोरिति प्रक्रमः,
कस्यासावाकारो रूपादिसत्त्वापेक्षया इति वाच्यम् । किश्चातः ? सर्वथाऽपि दोष इत्याह-न रूपसत्त्वस्य असावाकारः। कुत इत्याह-त्वगिन्द्रियेणापि ग्रहणात् कारणात् । यद्येवं ततः किमित्याह-तस्य च-त्वगिन्द्रियस्य रूपावि. षयत्वात् । अविषयत्वं च तथा-त्वगिन्द्रियस्य रूपविषयत्वेन अप्रतीतेः तत्
(विवरणम् ) (१०-११) सन्मृद्रूपाकारवेदनादिति । सत्त्वं-सत्त्वमानं मृदूपाकारश्च विशेषरूपस्तयोर्वेदनात् ॥
(२०) सत्त्वाकारयोरितीति । सत्वं चाकारश्च-मृद्रूपादिरूपस्तयोः ॥
(२१) रूपादिसत्त्वापेक्षयेति । किं रूपसत्त्वस्य स्पर्शसत्त्वस्योभयसत्त्वस्य वा ३० सम्बन्धी घटलक्षण आकार इत्यर्थः ।।
१ 'बाधातू तथैक०' इति ग-पाठः । २ 'तस्य तु रूपाः' इति क-पाठः ।
२५