________________
१३९
अधिकारा] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) त्वात् , बोधवृद्ध्युपपत्तेः, आलोचिताधिगमात्, तत्स्थैर्यसिद्धेः, तथाऽनुभवभावात्, प्रतिक्षेपायोगात्, बाधकानुपपत्तेः न्यायत एव व्यवस्थितं प्रामाण्यम् ॥ · तथा सद्व्याचनेकखभावता च वस्तुनस्तथाऽनुभवसिद्धत्वादिति। किं हि सत्त्वादन्यद् द्रव्यत्वादीति चेत्, प्रतीतमेतद् यत् तस्मिन् गृहीतेऽपि कथञ्चिन्न गृह्यत इति । नैवंविधं किश्चिदवगच्छाम इति चेत्, किं न भवति भवतः कचिद् घटादौ सन्मात्रग्रहेऽन्याग्रहः । किं तद् यद् भूयो गृह्यते इति चेत्, ननु बालादिसिद्धं तदनुविद्ध-१० मेव विशिष्टं मृद्रूपादि । न तत् तत्सत्त्वतोऽन्यदेवेति चेत्, सत्यमे तत्, किन्तु तन्मात्रमपि न भवतीति तथा प्रतीतेः निश्चयानुभवेन
(स्वो० व्या०) वृद्ध्युपपत्तेः अर्थानुभवभावेन, तथाऽऽलोचिताधिगमाद् दृष्टपरिच्छेदेन, तथा तत्स्थैर्यसिद्धेः बोधावस्थानेन, तथाऽनुभवभावादविच्युतिरूपधारणया, ५ तथा प्रतिक्षेपायोगादधिकृतानुभवस्य अयोगश्च बाधकानुपपत्तेः कथञ्चिद् ग्रहणमपि यथायोगं योजनीयम् । एवं न्यायत एव व्यवस्थितं प्रामाण्यम्, ईहादेरिति प्रक्रमः ।।
तथा सद्व्याचनेकखभावता च वस्तुनो न्यायत एव व्यवस्थिता । कथमित्याह-तथाऽनुभवसिद्धत्वात्-अवग्रहादिप्रकारेणानुभवसिद्धत्वादिति ।२० किं हि सत्त्वादन्यत्-अर्थान्तरभूतं द्रव्यत्वादि । इति चेत्, एतदाशयाहप्रतीतमेतद् यत् तस्मिन्-सत्त्वे गृहीतेऽपि सति कथञ्चिन्न गृखत इति नैवंविधं किञ्चिद् यत् तस्मिन् गृहीतेऽपि कथञ्चिन्न गृह्यत इति तदवगच्छामः। इति चेत्, एतदाशङ्कयाह-किं न भवति भवतः कचिद् घटादौ वस्तुनि सन्मात्रग्रहे सति अन्याग्रहः-वस्त्वन्तराग्रहः ? किं तत्-वस्तु यद् भूयः- २५ पुनः सन्मात्रग्रहोत्तरकालं गृह्यते । इति चेत्, एतदाशक्याह-नन्वित्यक्षमायां . बालादिसिद्धं तदनुविद्धमेव-सन्मात्रानुविद्धमेव विशिष्टं मृदूपादि । न तत्-मृद्रपादि तत्सत्त्वतः सन्मात्रसत्त्वादन्यदेव । इति चेत्, एतदाशक्याहसत्यमेतत्-अन्यदेव न, किन्तु तन्मात्रमपि-सन्मात्रमपि न भवति । कुत इस्याह-तथा-सन्मात्रत्वेन अप्रतीतेः । अप्रतीतिश्च निश्चयानुभवेन अव-३०
१'तथा' इति पाठो ग-प्रतौ न विद्यते। २ 'मेव न' इति क-पाठः । ३ 'तथा तथाss. मोचिता.' इति क-पाठः। ४ 'अयोगखबाधकाः' इति -पाठः ।