________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम्)
J
वगमात् प्रथममेव विशेषाग्रहणात् इन्द्रियद्वारेणैव तथाऽर्थविशेषप्रतिपतिः सकललोकसिद्धत्वात्, अन्यथा तदनुपपत्तेः द्राग* दर्शने कचिदभावात् शीघ्रावगमस्यापि दीर्घत्वात् कालसौक्ष्म्यादिति । वस्तुनोsनेकस्वभावत्वात् सर्वेषां सदा भावात्, अन्यथा तदनुपपत्तेः चित्रास्तरणवदेकदैव किं नार्थविशेषप्रतिपत्तिर्येनैतदेवमिति ग्रहीतुः क्षयोपशमाभावादित्युक्तप्रायम् ॥ एवमहादेः कथचिदन धिगतार्थाधिगन्तृत्वात्, ( स्वो० व्या० )
एकाधिकरण
चैतदङ्गीकर्तव्यमित्याह - प्रथममेव आदावेव विशेषाग्रहणात् सर्वत्र । किमित्याह- इन्द्रियद्वारेणैव तथा - समानधर्मग्रहणपुरस्सरा अर्थविशेषप्रतिपत्तिः । इत्थं चैतदङ्गीकर्तव्यमित्याह-सकललो कसिद्धत्वात् कारणात्, अन्यथा - उक्तप्रकारव्यतिरेकेण तदनुपपत्तेः - अर्थविशेषप्रतिपत्त्यनुपपत्तेः । अनुपपत्तिश्च द्राग१५ दर्शने कचित् - विद्युत्सम्पातादौ अभावादर्थविशेषप्रतिपत्तेः । अन्यत्र भविष्यतीत्यारेकानिरासायाह - शीघ्रावगमस्यापि लोकदृष्ट्या, दीर्घत्वात् तत्त्वदर्शनेन, दीर्घत्वं चें कालसौक्ष्म्यादितीन्द्रियद्वारेणैव तथाऽर्थविशेषप्रतिपत्तिरिति क्रिया । आह-वस्तुनोऽनेकस्वभावत्वादु भवन्नीत्या सर्वेषां स्वभावानां सदा भावात् त्वन्नीत्यैव, अन्यथा तस्य वस्तुनः तदनुपपत्तेः - अनेकस्वभावत्वानुपपत्तेः । २० किमित्याह - चित्रास्तरणवदिति निदर्शनम्, एकदेव - एकस्मिन्नेव काले किं नार्थविशेषप्रतिपत्तिः सन्निधानाविशेषेऽपीति गर्भः, येनैतत् - अनन्तरोदितं एवं तदितरधर्मालोचनादित्वेन इति । एतदाशङ्क्याह- ग्रहीतुः क्षयोपशमाभावादेतदेवमित्युक्तप्रायं प्रायेणोक्तं प्राक् ।।
एवमित्यादि । एवम् उक्तनीत्या ईहादे: - मतिविशेषजातस्य, न्यायत एव २५ व्यवस्थितं प्रामाण्यमिति योगः । हेतूनाह- कथञ्चिदनधिगतार्थाधिगन्तृत्वात् अवग्रहबोधापेक्षया, तथा एकाधिकरणत्वात् तद्वस्तुतत्त्वापेक्षया, तथा बोध( विवरणम् )
(१६) शीघ्रावगमस्यापि लोकदृष्ट्येति । लोकव्यवहारेण हि चक्षुर्निमीलनानन्तरं घट इत्यादि यज्ज्ञानमुत्पद्यते तच्छीघ्रावगम इत्युच्यते । निश्चयतस्तु तत्रापि ३० प्रथमं सत्त्वमात्रमेवावच्छिद्यत इत्यर्थः ॥
१०
२३८
[ तृतीयः
१ 'त्वात् प्रथममेव विशेषाग्रहणात् सर्वेषां ' इति क- पाठः । २ 'र्येन तदेव०' इति ग-घपाठः । ३ ' तदस्वदर्शनेन' इति क-पाठः । ४ 'च' इति पाठो नास्ति - प्रतौ । ५ तदर्थविशेष०' इति ङ - पाठः 1.