________________
आप
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् २३७
(मूलम्) पगमात् । एवमपि दृष्टबाधेति चेत् , न, अन्तरालावायत एव तद्भावात् । कथमेतदवगम्यत इति चेत्, अवग्रहबोधस्याल्पत्वात् । यदि नामैवं ततः किमिति चेत्, नासौ विशिष्टाध्यवसायबीजम्, ५ यस्तु भवति सोऽवान्तरावायरूपः, अवायबहुत्वात् । एवं सद्व्या. बनेकखंभावं वस्तुनि तदितरधर्मालोचनेन समानधर्मव्यवच्छेदतः तबोधपूर्वकत्वात् , तदितरबोधस्य तथाऽनुभवतस्तत्तथास्वभावत्वा
(स्वो० व्या०) एतदाशझ्याह-सत्यमेवमेतत् , अदोषस्त्वत्र तन्मात्रात्-अवग्रहमात्रादनिर्देश्य-१० सदादिमात्रगोचरात् अनभ्युपगमात् सदादिमात्रनिश्चयस्य । एवमपि दृष्टपाथेति चेत् तदनन्तरमेव भावादधिकृतनिश्चयस्येत्यभिप्रायः । एतदाशयाह-न, अन्तरालावायत एव ज्ञेयत्वाद्यपेक्षया सदसदीहोत्तरकालभाविनः सकाशात् सद्भावात्-सदादिमात्रनिश्चयभावात् , शब्दारूषितबोधानन्तरभावी एवायं निश्चय इत्यर्थः । कथमेतत्-अनन्तरोदितमवगम्यते ?। इति चेत्, एतदाशझ्याह-अव- १५ ग्रहबोधस्य, प्रक्रमान्नैश्चयिकावग्रहसम्बन्धिनः । किमित्याह-अल्पत्वादनवबोधव्यावृत्तिमात्ररूपत्वेन । यदि नामैवं ततः किम् ? । इति चेत्, एतदाशझ्याहनासौ-अल्पबोधरूपः सन् विशिष्टाध्यवसायबीजम् , न ह्यणुमात्राद् छ्यणुकादिभावः, यस्तु भवति विशिष्टाध्यवसायबीजं सोऽवान्तरावायरूप:-शब्दारूषितबोधस्वलक्षणः । कुत ऐतदेवमित्याह-अवायबहुत्वात् कालक्षयोपशमादि-२० भेदेन, अतः प्रथमाक्षसन्निपाते तदेव प्रतिभासत इति युक्तमिति स्थितम् । एवम्उक्तनीत्या सद्व्याधनेकस्वभावे वस्तुनि इन्द्रियद्वारेणैव तथाऽर्थविशेषप्रतिपत्तिरिति योगः । कथमित्याह-सव्याद्यनेकखभावं वस्तु प्रायशो निदर्शितमेव, तथा निदर्शयिष्यामः, ततश्च सद्रव्याधनेकस्वभावे वस्तुनि सति । किमित्याहतदितरधर्मालोचनेन तेऽन्वयिनः, इतरे व्यतिरेकिणः, ते च इतरे च तदितरे, २५ तदितरे च ते धर्माश्च तेषामालोचनं-स्वरूपनिरीक्षणमिति विग्रहः, तेन समानधर्मव्यवच्छेवतः-ज्ञेयत्वादिव्यवच्छेदेन । व्यवच्छेदश्च तद्बोधपूर्वकत्वात्समानधर्मबोधपूर्वकत्वात् । तदितरबोधस्य-सत्त्वादिविशेषधर्मबोधस्य । एतच्चास्य तथाऽनुभवतः-इत्थं क्रमानुभवेन तथाखभावत्वावगमाद् वस्तुनः । इत्थं
१ 'खभावे वस्तुनि तदितर.' इति क-पाठः । २ 'एव गेयत्वाद्य.' इति घ-पाठः । ३ 'मात्रा. यणुका.' इति क-पाठः । ४ 'बोधलक्षणः' इति' उ-पाठः । ५ 'एतदित्याह' इति क-पाठः । ६ 'गेयस्वादि.' इति घ-पाठः। ७ 'सत्त्वादिधर्मबोधस्य' इति क-पाठः ।