________________
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीया
(मूलम्) सदादिमात्रस्य, अतः प्रथमाक्षसन्निपाते तदेव प्रतिभासत इत्येतद् युक्तम् , सितेतरादिष्वपि क्षिप्रादिदर्शने तावन्मात्रनिश्चयात् । न च ५तत्र तवग्रहणमेव, तथाऽनुभवविरोधात् । न चान्यथाग्रहणेऽन्यथानिश्चयोत्पादा, प्रमाणाभावात् । न च सन्नप्ययं न्याय्या, असमअसत्वापत्तेः। न च वैभ्रमिक एवायम्, तद्भावभावित्वोपलब्धेः। अवग्रहादप्ययमयुक्त इति चेत्, सत्यम् , अदोषस्तु तन्मात्रानभ्यु
(स्वो० व्या०) १० कल्पनयेति भावः । इत्थं चैतदङ्गीकर्तव्यमित्याह-नियामकाभावादिति, अतः स्थितमेतदयुक्तमिति । न चेत्यादि । न च द्रारदर्शनात्-शीघ्रदर्शनात् तन्निश्चयः, प्रक्रमादसाधारणवस्तुनिश्चयः, अपितु सदादिमात्रस्य निश्चयः, अत:-अस्मात् कारणात् प्रथमाक्षसन्निपातेऽवग्रहणकाले तदेव सामान्यं प्रतिभासत इत्येतद् युक्तम् । उपपत्त्यन्तरमाह-सितेतरादिष्वपि क्षिप्रादिदर्शने, 'आदि'३५ शब्दान्मन्ददर्शनग्रहः, तावन्मात्रनिश्चयात्-सदादिमात्रनिश्चयात् । न च तत्रक्षिप्रादिदर्शने तदग्रहणमेव-सदादिमात्राग्रहणमेव । कुत इत्याह-तथा-सदादिमात्रनिश्चयत्वेन अनुभवविरोधात् । न चान्यथाग्रहणे, सितेतरादित्वेन ग्रहण इत्यर्थः, अन्यथा-सदादिमात्रत्वेन निश्चयोत्पादः । कुत इत्याह-प्रमाणा.
भावात् । न च सन्नप्ययमन्यथाग्रहणेऽन्यथानिश्चयोत्पादः न्याय्यः । कुत २० इत्याह-असमञ्जसत्वापत्तेः सितेतरादिव्यवस्थाऽभावेन । न च वैभ्रमिक एवायम्, प्रक्रमाद् द्राग्दर्शनेन निश्चयः सदादिमात्रस्य । कुत इत्याह-तद्भावभावित्वोपलब्धेः-सदादिमात्रभावभावित्वोपलब्धेः। अवग्रहादपि-अनिर्देश्यसदादिमानगोचरादयं-सदादिनिश्चयः, न शब्दारूषितत्वेन अयुक्तः इति चेत्,
(विवरणम्) २५ (१३-१४) सितेतरादिष्वपि क्षिप्रादिदर्शने आदिशब्दान्मन्ददर्शनग्रह
इति । ये हि सितपीतादयो भावा अतिपरिचितास्तेष्वतिशीघ्रदर्शने सत्त्वमात्रं प्रतीयते, मन्ददर्शनेऽपि ध्यामलादिलोचनप्रमातृसत्के सत्त्वमानमेव चकास्ति, तथैवानुभूयमानत्वात् ॥ - (१६-१७) सदादिमात्रनिश्चयत्वेनानुभवविरोधादिति । यदि हि क्षिप्रा. ३० दिदर्शने सत्त्वमात्रप्रतीतिर्न स्यात् तदा पश्चात् सत्वमात्रोल्लेखी विकल्पो न स्यात् । अनुभूयते च निश्चयो मया किमपि दृष्टमासीदित्युल्लेखेन, तस्मात् क्षिप्रादिदर्शनेऽपि सत्त्वमात्रमवबुद्ध्यते, प्रथमत इति स्थितम् ॥ १ 'इति युक्तम्' इति ग-पाठः। २ 'यदि' इति च-पाठः ।