________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् ) निबन्धनभावात् , प्रतीतिसचिवतचित्रवभावतया तदविरोधादित्यलं प्रसङ्गेन ॥ __ अस्तु वा निर्विकल्पकमपि प्रत्यक्षम्, तत्रासाधारणमेव वस्तु५ प्रतिभासत इत्येतदयुक्तम्, न्यायानुभवविरोधात् । तत्प्रतिभासों हि निश्चयबलेन व्यवस्थाप्यते, अन्यथा तदयोगात् , भावतस्तेनैव तदनधिगतेः तथाऽनुभवाभावात्, एवमपि तत्कल्पनेऽतिप्रसङ्गापत्तेः नियामकाभावादिति । न च द्राग्दर्शनात् तन्निश्चयः, अपि तु
a (स्वो० व्या०) प्रत्यक्षमित्यत्र न प्रमाणं, तेनैव तदनधिगतेः अर्थविषयत्वादित्येवमादय उक्ता दोषास्तदभावः । कथमित्याह-सर्वत्र-सविकल्पत्वादौ निरूप्ये । किमित्याह-अनुपचरितनिषन्धनभावात् , तात्त्विकनिबन्धनभावादित्यर्थः । अत एवाह-प्रतीतीत्यादि । तस्य-प्रत्यक्षस्य चित्रस्वभावता-स्वविषयग्रहणरूपा विच्छिन्नार्थग्रहणवभावसंवेदनवेदनेन तचित्रस्वभावता प्रतीतिसचिवा चासौ तथाप्रतीतेः तचित्र-१५ स्वभावता चेति विग्रहः तया प्रतीतिसचिवतचित्रस्वभावतया कारणेन तदविरोधात्, प्रक्रमादुक्तदूषणविपक्षतः, सविकल्पकत्वादौ तेनैव तेदनधिगत्याद्यविरोधात् । अविरोधश्च पूर्वपक्षग्रन्थानुसारतः प्रतिपक्षोपन्यासेन खतत्रनीत्या स्वयमेव भावनीय इत्यलं प्रसङ्गेन ॥
इहैवोपचयमाह अस्तु वा इत्यादिना । अस्तु वा-भवतु वा निर्विकल्पकमपि २० प्रत्यक्षंतत्र-निर्विकल्पके प्रत्यक्षे असाधारणमेव-सजातीयेतरविविक्तमेव वस्तुरूपादि घटादि प्रतिभासत इत्येतदयुक्तम्-अघटमानकम् । कुत इत्याहन्यायानुभव विरोधात् न्यायप्रधानोऽनुभवो न्यायानुभवस्तेन विरोधात् , अथवा न्यायः-युक्तिः, अनुभवः-प्रत्यक्षं ताभ्यां विरोधात् । एनमेवाह तत्प्रतिभासो हीत्यादिना । तत्प्रतिभासो हि प्रत्यक्षाकारो यस्मात् निश्चयबलेन व्यवस्थाप्यते, २५ अन्यथा-निश्चयबलमन्तरेण तदयोगाद्-व्यवस्थाज्योगात्। अयोगश्च भावत:परमार्थेन तेनैव-निर्विकल्पकप्रत्यक्षेण तदनधिगतेः-प्रत्यक्षाकारस्यानधिगतेः । अनधिगतिश्च तथा-खाकारग्रहणतया अनुभवाभावात् । एवमपि-अनुभवाभावेऽपि तत्कल्पने-तेनैव तदधिगतिकल्पनेऽतिप्रसङ्गापत्तेः, प्रतिभासान्तर
१'प्रत्यक्षमस्तु तत्र' इति क-पाठः । २ 'उक्तदोषाः तदभावः ।' इति क-पाठः। ३ 'निरुपचितनिबन्धन' इति क-अ-पाठः। ४ 'संवेदनेनावेदनेन' इति क-पाठः। ५ 'तदविणल्या. इति -पाठः। ६ 'दयुक्त-न घठमानकम्' इति क-पाठः।