________________
अनेकान्तजयपताकाख्यं प्रकरणम्
हृतीयः (मूलम् ) हाराभावः, उक्तवण्यायतस्तदयोगात् योगेऽप्यभिलषितार्थासिद्धिरेव, अर्थस्यार्थगमकत्वाभ्युपगमात् तत्तथातायां च निश्चयाभा५ वात्, तस्य तद्विषयत्वानभ्युपगमात्, पारम्पर्यतस्तत्तद्भावे प्रमाणाभावात् परनीतितस्तदसिद्धेरिति । एतेन धूमादग्यनुमानं निषिद्धम् , समानयुक्तित्वादिति । यस्य पुनरन्वयव्यतिरेकवदेकानेकखभावं निश्चयात्मकमेव प्रत्यक्षं तस्योक्तदोषाभावः, सर्वत्रानुपचरित
(खो० व्या०) १० अनुमानानुमेयव्यवहाराभावः । कुत इत्याह-उक्तवत्-यथोक्तं तथा न्यायत:न्यायेन तदयोगात्-अधिकृतव्यवहारायोगात् । योगेऽपि बुद्ध्यारूढधर्मधर्मिन्यायेन अधिकृतव्यवहारस्य अभिलषितार्थासिद्भिरेव । कुत इत्याहअर्थस्यार्थगमकत्वाभ्युपगमात् । यदि नामैवं ततः किमित्याह-तत्तथातायां च अर्थादर्थगमकतायां च निश्चयाभावात् । अभावश्च तस्य-अर्थस्य १५ तद्विषयत्वानभ्युपगमात्-विकल्पविषयत्वानभ्युपगमात् पारम्पर्यतः-पारम्पर्येण तत्तद्भावे तस्य-विकल्पस्य तस्मात्-अर्थाद् भावे । किमित्याह-प्रमाणाभावात्। अभावश्च परनीतित:-परनीत्या तदसिद्धे:-प्रमाणासिद्धेः खलक्षणात् स्खलक्षणज्ञानं ततो विकल्प इति, न ह्येवं स्खलक्षणसामान्यलक्षणालम्बनं परनीत्या प्रमाणमस्तीति भावनीयम् । एवमभिलषितार्थासिद्धिरेव इति । एतेनेत्यादि । एतेन३० अनन्तरोदितेन धूमादत्यनुमानं निषिद्धम् । कुत इत्याह-समानयुक्तित्वाद् धूमादम्यनुमानस्य । न चायं सर्वस्यैव वादिनो दोष इत्याह-यस्य पुनरित्यादि । यस्य पुनर्वादिनः अन्वयव्यतिरेकवत् नित्यानित्यमित्यर्थः, अत एव एकानेकखभावं निश्चयात्मकमेव प्रत्यक्षमिदमित्थमिति तस्योक्तदोषाभावः निर्विकल्पकं
(विवरणम्) २५ (१३) अर्थस्यार्थगमकत्वाभ्युपगमादिति । अर्थस्य-धूमादेरग्न्याद्यर्थगमकत्वा
भ्युपगमात् ।। - (१८-१९) न ह्येवं स्वलक्षणसामान्यलक्षणालम्बनं परनीत्या प्रमाणमस्ति इति भावनीयमिति । स्वलक्षणं-स्खलक्षणज्ञानं ततोऽपि सामान्योल्लेखी विकल्प इति, एवं स्वलक्षणसामान्यगोचरमेकं प्रमाणं क्षणिकत्वेन बौद्धमते नास्तीत्यर्थः । २० द्रागदर्शनात्-शीघ्रदर्शनात् प्रथमाक्षसन्निपातभाविनो निर्विकल्पादित्यर्थः॥ : १ 'दृसिद्धिरिति' इति ग-पाठः । २ 'अनेन' इति ग-पाठः। ३ 'पाततोऽपि सामान्योल्लेखी विकल्प इत्यं(? त्ये)वं खलक्षणसामान्यमेकं ने (१) इति स्व-च-पाठः ।