________________
अधिकार: ]
स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
विशिष्टस्य ग्रहणात्, अभ्युपगमेऽनुभवविरोधात् अविनाभावग्रहणमन्तरेण तदयोगात्, लोके तथोपलब्धेः तस्य च परपक्षेऽभावात्, ज्ञानानां प्रतिनियतार्थत्वात् तत्तथाऽभावतोऽनुसन्धानायोगात् ५ तथाविधविकल्पस्याप्यसिद्धेः, तस्यापि क्षणिकत्वात्, तथा तत्तन्निचयानुपपत्तेरित्यत्रापि बुद्ध्यारूढधर्मधर्मिन्यायतोऽप्यधिकृतव्यव
२३३
( खो० व्या० )
विशिष्टस्य तत्स्वभावतया ग्रहणात् । अस्त्वेवमित्यधिकृत्याह - अभ्युपगमेऽधिकृतग्रहणस्य अनुभवविरोधात् । विरोधश्च अविनाभावग्रहणमुभयगत मन्त- 10 रेण तदयोगात्-तथाविशिष्टस्य ग्रहणायोगात् । अयोगश्च लोके तथोपलब्धेः - अविनाभावग्रहणमन्तरेण सम्बन्धिनः सम्बन्ध्यन्तरविशिष्टतया ग्रहणोपलब्धेः । अविनाभावग्रहणादेतदेवं भविष्यतीत्याह तस्य च - अविनाभावग्रहणस्य परपक्षेsभावात् । अभावश्च ज्ञानानां प्रतिनियतार्थत्वात् क्षणिकत्वेन यथोक्तम्"एकमर्थं विजानाति न विज्ञानद्वयं यथा । विजानाति न विज्ञानमेकमर्थद्वयं तथा ॥ ""
,
इत्यादि । तत्तथेत्यादि । तस्य हेतुज्ञानस्य तथा - फलज्ञानत्वेन अभावतः कारणात् । किमित्याह-अनुसन्धानायोगात् 'अत इदम्' इत्यनुसन्धानं तथाविधविकल्पस्यापि तत्पृष्ठभाविनोऽसिद्धेः । असिद्धिश्च तस्यापि - विकल्पस्यापि क्षणिकत्वात् स्वसंविन्निष्ठितत्वेन, 'ततश्च तथेतरेतरावध्यनुसन्धानत्वेन तत्तन्निश्च- २० यानुपपत्तेः प्रक्रमात् तस्य कस्यचित् तन्निश्चयः - तन्निर्विकल्पकत्वकार्यत्वनिश्चयः तत्तन्निश्वयः तस्यानुपपत्तिस्ततः न कार्यहेतोरपि तदवगतिरिति क्रियायोगः । अत्रापिकार्यहेतावपि बुद्ध्यारूढ धर्मधर्मिन्यायतोऽपि अधिकृतव्यवहाराभावः( विवरणम् )
(१५-१६) एकमर्थं विजानाति न विज्ञानद्वयं यथा । विजानाति न विज्ञानमेकमर्थद्वयं यथा ॥
इति । अयमत्र भावः - :- क्षणिकत्वाभ्युपगमे बौद्धस्य न कदाचित् कचित् कश्चिदप्यर्थ एकसन्तानवर्तिभ्यां द्वाभ्यां ज्ञानाभ्यां ज्ञातुं शक्यः क्रमभावित्वात् उभयोः । तथा वर्त्त (र्थ) लक्षण क्रमभावितावेकेन ज्ञानक्षणेन न बोद्धुं पायेंते, क्षणिकत्वादेवेति ॥ (२१) तस्य कस्यचिदिति । प्रमातुः ॥
१५
३ 'द्विजानाति' इति ख- पाठः । ४ अनुष्टुप् । ५ 'भावित्वोभयोः' इति कपाठः । ६ 'द्वावपक्षणी' इति ख- पाठः, 'द्वावस (?) क्षणी' इति तु च - पाठः ।
१ अनुष्टुप् । २ ' ततश्वेतरे०' इति क-पाठः ।
अनेकान्त० ३०
૧