________________
२३२ अनेकान्तजयपताकाख्यं प्रकरणम्
[सृतीयः (मूलम् ) तावदर्थाप्रतिबद्धत्वात् तस्य एकत्वेनातथाभूतत्वानीलानीलपीतबुद्ध्याकारतुल्यत्वात् परप्रतिपादनोपायत्वानुपपत्तेरतिप्रसङ्गादिति 'न खभावहेतोस्तदवगतिः॥
एवं न कार्यहेतोरपि, तन्निर्विकल्पकत्वकार्यत्वेन कस्यचिदसिद्धेः, सदैकेनैकवेदनात्, तत्कार्यत्वस्य च तदवधिकत्वात् तदग्रहणे तथाऽग्रहणात्, अन्यथा न्यायायोगात् तत्तत्वभावत्वतः, तथाग्रहणेऽतिप्रसङ्गात्, अन्यतरदर्शनादन्यतरावगमापत्तेः, तथा
(खो० व्या०) इत्याह-अस्य तावद्-बुद्ध्याऽऽरूढस्य धर्मधर्मिभावस्य अर्थाप्रतिवद्धत्वात्वस्त्वप्रतिबद्धत्वात् । अप्रतिबद्धत्वं च तस्य-अर्थस्य एकत्वेन-एकस्वभावत्वेन हेतुना अतथाभूतत्वात्-धर्मधर्मितया अभूतत्वात् । यदि नामैवं ततः किमित्याह-नीलात् सकाशात् नीलपीतबुद्ध्याकारतुल्यत्वात् बुद्ध्यारूढधर्मधर्मि५भावस्य ततोऽभावादित्यर्थः । ततश्च परप्रतिपादनोपायत्वानुपपत्तेः तदसद्रूपतया नासत उपायत्वम् । इत्याह-अतिप्रसङ्गात् असत उपायत्वे सर्वसिद्ध्यापत्त्याऽतिप्रसङ्गः, इति-एवमुक्तनीतेरसिद्धेने स्वभावहेतोः सकाशात् तदवगतिः, प्रक्रमात् प्रत्यक्षनिर्विकल्पकत्वावगतिः ॥
एवमित्यादि । एवं न कार्यहेतोरपि सकाशात् , तदवगतिरिति प्रक्रमः । २० कुतो नेत्याह-तनिर्विकल्पकत्वकार्यत्वेन-प्रत्यक्षनिर्विकल्पकत्वकार्यत्वेन कस्यचित्-पदार्थस्य असिद्धेः कारणात् । असिद्धिश्च सदा-सर्वकालं एकेनज्ञानेनेति सर्वसामर्थ्यम् एकवेदनात्-एकानुभवात् । यद्येवं ततः किमित्याहतत्कार्यत्वस्य च, प्रक्रमात् प्रत्यक्षनिर्विकल्पकत्वकार्यत्वस्य च । किमित्याह-तद
वधिकत्वात्-अधिकृतप्रत्यक्षावधिकत्वात् । एवमपि किमित्याह-तदग्रहणे२५ विवक्षितावध्यग्रहणे सति । किमित्याह-तथा-तदवधिकत्वेन अग्रहणात् । इत्थं
चैतदङ्गीकर्तव्यमित्याह-अन्यथा-एवमनभ्युपगमे न्यायायोगात् । अयोगश्च तत्तत्वभावत्वतः तस्य-विवक्षितकारणकार्यत्वस्य तत्स्वभावत्वतः-तदवधिकखभावत्वतः तज्जन्यत्वेन । तथा-तदवधिकत्वेन ग्रहणे सति किमित्याह
अतिप्रसङ्गात् । ततः किमित्याह-अन्यतरदर्शनाद् हेतु-फलयोः। किमित्याह३० अन्यतरावगमापत्तेः हेतु-फलयोरेव । आपत्तिश्च तथा-इतरेतरावधिकत्वेन
१ 'एवं कार्यहेतोरपि' इति ग-पाठः। २ 'सर्व' इति पाठो न विद्यते घ-पुस्तके। ३ विवक्षितस्य कारण.' इति क-पाठः ।