________________
अधिकारः]
स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
सदग्रहणात्, तगृहे साध्यप्रतिपत्तेः, तदप्रतिपत्तौ तद्हणायोगात् एकान्तैकत्वात्, तथाग्रहे मोहाभावात्, भावे वा निवृत्त्यनुपपत्तेः उपायाभावादिति। अनेन शिंशपादिप्रतिपत्तौ वृक्षाप्रतिपत्तिः प्रत्यु-५ क्ता, तुल्ययोगक्षेमत्वात् ; अन्यथा कथञ्चित् तद्भेदापत्तेः। व्यावृत्तिभेदोऽभ्युपगम्यत एवेति चेत्, न तर्हि तदेकखभावता । सोऽपारमार्थिक इति चेत्, किमर्थमस्योपन्यासः ? । व्यवहारार्थमिति चेत्, कीदृशोऽसता व्यवहारः। परमार्थतो भ्रान्त इति चेत्, न तत्त्वतः साध्यसाधनभाव इति । एतेन "सर्व एवायमनुमानानुमेयव्यव-१० हारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन" इत्येतदपि प्रत्युक्तम् , अस्य
(खो० व्या) असिद्धिश्च स्वभावस्य सत्त्वादेः तादात्म्येन-साध्यात्म्येन हेतुना तत्त्वात्साध्यत्वात् । यदि नामैवं ततः किमित्याह-तद्वत्-साध्यवत् तदग्रहणात्-स्वभावाग्रहणात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-तगहे-स्वभावग्रहे साध्यप्रतिपत्तेः, ३५ नान्यथेदमित्याह-तदप्रतिपत्तौ-साध्याप्रतिपत्तौ तहणायोगात्-स्वभावग्रहणायोगात् । अयोगश्च-एकान्तैकत्वात् , प्रक्रमात् साध्य हेत्वोः । मोहव्यावृत्त्यर्थमप्यस्य प्रवृत्तिरयुक्तेत्याह-तथाग्रहे-एकत्वेन ग्रहे मोहाभावात्, भावे वातथाग्रहेऽपि मोहस्य । किमित्याह-निवृत्त्यनुपपत्तेः। अनुपपत्तिश्च उपायाभावात्। तत्स्वरूपग्रहेऽपि तन्मोहस्य निवृत्तौ क उपाय इति?अनेन-अनन्तरोदितेन २० शिंशपादिप्रतिपत्तौ सत्यां वृक्षाप्रतिपत्तिः प्रत्युक्ता।कुत इत्याह-तुल्ययोगक्षेमत्वात्, शिंशपात्वस्यैव वृक्षत्वादित्यर्थः । अन्यथेत्यादि । अन्यथा-एवमनभ्युपगमे कथञ्चित् तद्भेदापत्तेः शिंशपात्व-वृक्षत्वयोर्मेदापत्तेावृत्तिभेदः अभ्युपगम्यत एव, शिंशपात्व-वृक्षत्वयोः शास्त्राधिकृतानित्यत्वकृतकत्वयोर्वा । इति चेत्, एतदाशङ्कयाह-न तर्हि तदेकस्वभावता-शिंशपादरेकखभावता । २५ः सा-व्यावृत्तिभेदः अपारमार्थिकः । इति चेत्, एतदाशयाह-किमर्थमस्यअपारमार्थिकस्य उपन्यासः? । व्यवहारार्थम् । इति चेत्, एतदाशङ्कयाहकीदृशोऽसता व्यवहारः। परमार्थतो भ्रान्त इति चेदू व्यवहारः। एतदाशक्क्याह-न तत्त्वतः-परमार्थेन साध्यसाधनभावो भ्रान्तव्यवहारविषयत्वादिति एतेनेत्यादि । एतेन-अनन्तरोदितेन "सर्व एवायमनुमानानुमेयव्यवहारो ३० बुद्ध्यारूढेन धर्मधर्मिन्यायेन" इत्येतदपि भवतोक्तं प्रत्युक्तम् । कुत १ 'सतो' इति ग-पाठः।