________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेशी | इति वेत्ति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ ॥" इत्यादि तदपाकृतमवसेयम् उक्तवत् प्रत्यक्षेणैवासिद्धेः, तदेकस्वभावत्वविरोधादिति ॥
: २३०
३०
J
[ तृतीयः
न चानुमानमत्र प्रमाणम्, अस्य स्वलक्षणत्वात् अनुमानस्य च १० सामान्यलक्षणालम्बनत्वात् । न चेदं पैरपक्षे चारु, गमकलिङ्गासम्भवात् स्वभावकार्यासिद्धेः स्वभावस्य तादात्म्येन तत्त्वात् तद्वत् ( स्त्रो० व्या० )
शब्दानुविद्ध इत्यर्थः ॥ तथा संहृत्य सर्वतश्चिन्तां विकल्परूपां स्तिमितेन अन्तरात्मना प्रसन्ननिर्व्यापारेण स्थितोऽपि सन् चक्षुषा रूपमीक्षते पश्यति १५ यया बुद्ध्या साऽक्षजा मतिः ॥ ईक्षित्वा पुनर्विकल्पयत् किञ्चित् पश्चात् आसीन्मे कल्पना ईदृशी - एवम्भूता इति वेत्ति, न पूर्वोक्तावस्थायां चक्षुषा रूपेक्षणलक्षणायामिन्द्रियाद् गतौ ॥ इत्यादि यदाह न्यायवादी तदपाकृतम् - अपास्तमवसेयम् । कथमित्याह-उक्तवत् यथोक्तं तथा प्रत्यक्षेणैव असिद्धेः प्रत्यक्षेणैव सिध्यतीति अस्यासिद्धेः । असिद्धिश्व तदेकस्वभावत्व२० विरोधात् तस्य - प्रत्यक्षस्य एकस्वभावत्वविरोधात् स्वविषयपरिच्छेदकत्वेनेति भावि तार्थमेतदिति ॥
न चेत्यादि । न च अनुमानमत्र, प्रक्रमात् निर्विकल्पकत्वे, प्रत्यक्षस्य प्रमाणम् । कुत इत्याह- अस्य - प्रत्यक्षस्य स्वलक्षणत्वात् । यदि नामैवं ततः किमित्याह- अनुमानस्य च सामान्यलक्षणालम्बनत्वात् तत् कथमन्या२५लम्बनमन्यत्र प्रमाणं भवति ? ।
दूषणान्तरमाह-न चेदमित्यादि । न चेदम् - अनुमानं परपक्षे- एकान्तैकखभाववादिपक्षे चारु - शोभनं गमकलिङ्गासम्भवात् । असम्भवश्च स्वभावकार्यासिद्धेः स्वभावश्च कार्यं च स्वभावकार्ये, लिङ्गे इति प्रक्रमः, तयोरसिद्धेः । ( विवरणम् )
।
(१४) स्थितोऽपि सन्निति । सर्वतश्चिन्तासंहरणेन कृतावस्थानोऽपि किं पुनः सर्वतः प्रवृत्तिचिन्ता कः प्रमाता इत्यपि शब्दार्थः ॥
१ अनुष्टुप् । २ 'परे पक्षे' इति ग-ध-पाठः