________________
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
२२९
वादिनोऽन्यावेदनप्रसङ्ग एव । एवं च सति खनिर्विकल्पकत्ववेदनात् तत्सामर्थ्यतः तत्पृष्ठभावी विकल्पः स्वतस्तद्विषय एव स्याद् रूपादिविकल्पवत्, न च भवति, तथाप्रतीते, न च तमन्तरेण तत्-५ तथाताव्यवस्थितिः, अतिप्रसङ्गादिति । एतेन यदाह न्यायवादी
"प्रत्यक्षं कल्पनापोडं प्रत्यक्षेणैव सिध्यति । 'प्रत्यात्मवेद्यः सर्वेषां विकल्पो नाम संश्रयः॥
(खो० व्या) तचित्रताप्रसङ्गात् इति एवमेकखभाववस्तुवादिनः वादिनः । किमिति ३० आह-अन्यावेदनप्रसङ्ग एव, खव्यतिरिक्तविषयावेदनप्रसङ्ग एवेत्यर्थः । एवं च सति स्वनिर्विकल्पकत्ववेदनात् कारणात् तत्सामर्थ्यतः-स्वनिर्विकल्पकत्ववेदनसामध्यन हेतुना तत्पृष्टभावी विकल्पः, प्रक्रमात् सामान्येन प्रत्यक्षपृष्ठभावी विकल्पः, स्वतः-आत्मनैव समारोपव्यवच्छेदमन्तरेण तद्विषय एव स्यात्-स्वनिर्विकल्पकत्ववेदनविषय एव भवेत् । रूपादि विकल्पवदिति १५ निदर्शनम् । न च भवति खत एव, तथाऽप्रतीतेः कारणात् । न च तमन्तरेण 'विकल्पं तत्तथाताव्यवस्थितिः तस्य-प्रत्यक्षस्य तथाताव्यवस्थितिः-स्वनिर्विकल्पकत्ववेदनभावव्यवस्थितिः, स्वसंविदितत्वव्यवस्थितिरित्यर्थः । कथं नेत्याहअतिप्रसङ्गात्, विषयान्तरविषयवेदनाभावप्रसङ्गादिति । एतेन-अनन्तरोदितेन यदाह-न्यायवादी-धर्मकीर्तिर्वार्तिके प्रत्यक्षमित्यादि । तदपाकृतमवसेय-३० मिति योगः । प्रत्यक्षं प्रस्तुतं कल्पनाऽपोढमित्येतत् प्रत्यक्षेणैव सिध्यति । कथमित्याह-प्रत्यात्मवेद्यो यस्मात् सर्वेषां प्रमातृणां विकल्पो नाम संश्रयः
(विवरणम् ) (१५) रूपादिविकल्पवदिति । यथा हि रूपगोचरनिर्विकल्पज्ञानानन्तरं समारोपव्यवच्छेदमन्तरेणैव विकल्पो रूपगोचरो भवति, एवं निर्विकल्पज्ञानात २५ स्वनिर्विकल्पकत्ववेदनागोचरादनन्तरं जायमानो विकल्पस्तद्गतामेव निर्विकल्पकत्वे वेदनां गोचरयेदिति ॥
(१९) विषयान्तरविषयवेदनाभावप्रसङ्गादिति । विषयान्तरविषयवेदनाया भावस्य प्रसङ्गात् । यदि हि विकल्पमन्तरेणापि स्वसंविदितत्वं ज्ञायते, एवं तर्हि घटे परिच्छिन्ने पटविकल्पाभावेऽपि पटः किमिति न ज्ञायते ? ।।
(२२) विकल्पो नाम संश्रय इति । विकल्प एव सर्वप्रमातृभिन मानुविद्धो वेद्यते, न तु प्रत्यक्षमित्यर्थः ॥
१'प्रत्यात्मवद्यः' इति ग-पाठोऽशुद्धः। २ 'संशयः' इति क-पाठः । ३ अनुष्टुप् । ४ 'अन्तरेणेति शेषेः' इति टिप्पणकं घ-पुस्तके। ५ 'संशयः' इति क-पाठः।