________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
र्विकल्पकत्वमेव तदर्थः, न चानर्थो विषयः, न चाविषयेऽधिगतिरिति न तत्रास्य प्रमाणता, अतिप्रसङ्गात् । उभयं विषय इति चेत्, ५न, उभयोस्तल्लक्षणायोगात् स्वनिर्विकल्पकत्वस्य तदकारणत्वात् अकारणस्य चाविषयत्वात्, अन्यथाऽभ्युपगमविरोधात् । एतेन स्वसंविदितत्वं प्रत्याख्यातम् ॥
अनेन विषयावेदनप्रसङ्गात् सर्वथैकस्वभावत्वाद् निर्विषयतापत्तेः, न च खसंवेदनमेव विषयवेदनम्, तयोः कालादिभेदात् तद्१० वेदनस्यैकत्वाभावात् तच्चित्रताप्रसङ्गादिति एकखभावत्ववस्तु( स्वो० व्या० )
तनिर्विकल्पकत्वमेव-अधिकृतप्रत्यक्ष निर्विकल्पकत्वमेव तदर्थः - प्रत्यक्षार्थः, न चानर्थो विषयः,
२२८
[ तृतीयः
“रूपालोकमनस्कार चक्षुर्भ्यः सम्प्रवर्तते ।
પ
विज्ञानं मणिसूर्या शुगोशकृद्भ्य इवानलः ॥ ""
इति वचनात् । न चाविषयेऽधिगतिरपन्यायादिति एवं न तत्र - निर्वि कल्पकत्वेऽस्य - प्रत्यक्षस्य प्रमाणता । कुत इत्याह-अतिप्रसङ्गात् विषयलक्षणायोगेन प्रमाणताऽभ्युपगमे सर्वत्र प्रमाणतापत्तिरित्यतिप्रसङ्गः । उभयं - स्वनिर्विकल्पकत्वार्थोभयं विषयः प्रत्यक्षस्य । इति चेत्, एतदाशङ्कयाह - न, उभयोः - स्वनि२० र्विकल्पकत्वार्थयोः तल्लक्षणायोगात् विषयलक्षणायोगात् । अयोगश्च स्वनिविकल्पकत्वस्य तदकारणत्वात्-प्रत्यक्षाकारणत्वात्, अकारणस्य च अविषयत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह - अन्यथाऽभ्युपगमविरोधात् । विरोधश्च "नाकरणं विषयः" इति वचनप्रामाण्यात्, तदेवं नोभयं विषय इति । एतेनेत्यादि । एतेन - अनन्तरोदितेन स्वसंविदितत्वं प्रत्याख्यातम्, प्रत्यक्षस्येति
२५ प्रक्रमः ॥
इहैवोपचयमाह - अनेन - स्वसंविदितेन प्रत्यक्षेण । किमित्याह - विषयावेदनप्रसङ्गात् । प्रसङ्गश्च सर्वथैकस्वभावत्वात् अस्य । एवमपि को दोष इत्याहनिर्विषयतापत्तेः स्वसंविदितत्वेन । न चेत्यादि । न च स्वसंवेदनमेव विषयवेदनम् । कुत इत्याह- तयोः - स्व विषययोः कालादिभेदात् । 'आदि'३० शब्दात् स्वरूपग्रहः । यदि नामैवं ततः किमित्याह - तद्वेदनस्य तयोः - स्व- विषययोः वेदनं तद्वेदनं तस्य । किमित्याह - एकत्वाभावात् उभयवेदनेन, अत एव
१ 'दित्येवमेकख ०' इति क- पाठः । २ 'गोसकृद्भ्य' इति क-पाठः । ३ अनुष्टुप् ।