________________
२२७
अधिकारः] स्वोपज्ञव्याल्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) विधाने चास्येतरत्रापि तद्भावात् तथाप्रतीतेः, न च लोकप्रतीतितः, अभ्युपगमविचारात् तेन च तदप्राप्तेः तस्य चेहाधिकृतत्वादित्यलमनया लोकागमानुभवविरुद्धया अतिसूक्ष्मेक्षिकया उक्तवत् सर्वत्रा- ५ समञ्जसतापत्तेः। यस्तु लोकादिसापेक्षः तस्यैतद्भेदस्याविद्वदङ्गनादिलोकप्रतिष्ठितत्वात् अविगानतस्तथाप्रतीतेस्तव्यवस्थाकारिसदागमभावात् उक्तदोषाभाव इति ॥
किश्च निर्विकल्पकं प्रत्यक्षमित्यत्र न प्रमाणम् , तेनैव तदनधिगतेः, अर्थविषयत्वात् , तस्य च ततोऽन्यत्वात् । तथाहि-न तन्नि- १०
(खो० व्या०) इति भावितार्थमेतत् । संविन्मात्रार्थक्रियाविधाने चास्य-अनन्तरोदितज्ञानस्य । किमित्याह-इतरत्रापि, प्रक्रमादिन्दुद्वयादिज्ञानेऽपि, तद्भावात्संविन्मात्रार्थक्रियाविधानभावात् । भावश्च तथाप्रतीतेः । न चेत्यादि । न च लोकप्रतीतितोऽस्य, प्रान्ततेति प्रक्रमः । कुत इत्याह-अभ्युपगमविचारात् । ३५ यदि नामैवं ततः किमित्याह-तेन च-अभ्युपगमेन तदप्राप्ते-उक्तवद् भ्रान्तताऽप्राप्तेः तस्य च अभ्युपगमस्य इह-प्रक्रमेऽधिकृतत्वात् , ततश्च ततो यत् सिद्ध्यति तत् तत्त्वम्, अतोऽन्यदतत्त्वमित्यलमनया-एवम्भूतया लोकागमानुभवविरुद्धयाऽतिसूक्ष्मेक्षिकया । किमित्यत आह-उक्तवत्-यथोक्तं तथा सर्वत्रासमञ्जसतापत्तेः, अतो जातिरियमिति प्रतिपत्तव्या सर्वत्र तत्त्वेन । यस्तु २० लोकादिसापेक्ष:-लोकागमानुभवसापेक्षो वादीति गम्यते तस्य उक्तदोषाभाव इति सम्बन्धः । कथमित्याह-एतद्भेदस्य, प्रक्रमाद् भ्रान्तेतरज्ञानभेदस्य, आविद्वदङ्गानादिलोकप्रतिष्ठितत्वात् कारणात् । एतत् प्रतिष्ठितत्वं च अविगानतः तथा-भ्रान्तेतरत्वेन प्रतीतेः तथा तव्यवस्थाकारिसदागमभावात्, अधिकृतैतद्वेदव्यवस्थाकारिसर्वज्ञप्रणीतागमभावादित्यर्थः । उक्तदोषाभावः जाति-२५ युक्तिभिधान्तेतरज्ञानयोः समत्वापादनमुक्तो दोषः तदभावः, उपन्यस्तहेत्वन्यथाऽनुपपत्तेरिति ।।
दूषणान्तराभिधित्सयाऽऽह-किञ्चेत्यादि । किञ्च निर्विकल्पकं प्रत्यक्षमित्यत्र अर्थे न प्रमाणम्। कुत इत्याह-तेनैव-प्रत्यक्षेण तदनधिगतेः तस्य-निर्विकल्पकस्सानधिगतेः । अनधिगतिश्च अर्थविषयत्वात् प्रत्यक्षस्य तस्य च-अर्थस्य ३० ततः-प्रत्यक्षादन्यत्वात् । प्रस्तुतैदम्पयंमाह तथाहीत्यादिना । तथाहि-न १ 'तस्यैव तद्भेदस्य' इति घ-पाठः1 २ 'पत्तिरिति' इति य-पाठः ।