________________
२२६
अनेकान्तजयपताकाख्यं प्रकरणम् . [तृतीयः .
(मूलम् ) तदभावासिद्धरतिप्रसङ्गात् । न चातैमिरिकस्यापि तत्प्रत्ययप्रसङ्गा, तस्य तिमिरतदन्यहेतुजन्यस्वभावत्वात् , अतैमिरिकाणां च तद५भावात् तथा लोकप्रसिद्धेः । न च बाधातोऽस्य भ्रान्तता, बाधाऽसिद्धेभिन्नकालविषयप्रत्ययेन तदभ्युपगमेऽतिप्रसङ्गात्, कचिदभ्रान्तस्थापि असादौ तदन्यतो बाधोपलब्धेश्च । न चानर्थक्रियाकरणतः अप्राप्यदेशगतजलादिज्ञानेन व्यभिचारात्, संविन्मात्रार्थक्रिया
(खो० व्या०) १० त्याह-तदभावासिद्धेः-बहिस्तद्विषयाभावासिद्धेः, इन्दुद्वयाद्यभावासिद्धेरित्यर्थः । कुत इत्याह-अतिप्रसङ्गात् पटादिग्रहणस्वभावया धिया घटो न गृह्यत इति तस्याप्यभावप्रसङ्गादित्यर्थः । न चेत्यादि । न च अतैमिरिकस्यापि, प्रक्रमात् प्रमातुः, तत्प्रत्ययप्रसङ्गा-इन्दुद्वयादिप्रत्ययप्रसङ्गः, तदस्तीति कृत्वा । कुत इत्याह-तस्येत्यादि । तस्य-इन्दुद्वयादिप्रत्ययस्य तिमिरसहायतदन्यहेतुजन्य१५ स्वभावत्वात् । तिमिरसहायचक्षुरादिजन्यस्वभावो हि इन्दुद्वयादिप्रत्ययः । . यदि नामैवं ततः किमित्याह-अतैमिरिकाणां च प्रमातृणां तदभावात्तिमिराभावात् । ततश्च कारणवैकल्यात् कार्याभाव इति स्थितम् । इत्थं चैतदङ्गीकर्तव्यमित्याह-तथा लोकप्रसिद्धेः, अतैमिरिकाणां तिमिराभावेन नेन्दुद्वयादिप्रत्यय इति लोकप्रसिद्धेः । न चेत्यादि । न च बाधातः कारणात् अस्य २० इन्दुद्वयादिज्ञानस्येति प्रेक्रमः भ्रान्तता । कुत इत्याह-बाधासिद्धेः तस्यैव तिमिरापगमे एकेन्द्वादिज्ञानभावतो बाधा इत्यारेकानिरासायाह-भिन्नेत्यादि । भिन्नौ काल-विषयौ यस्य स भिन्नकालविषयः, एवम्भूतश्चासौ प्रत्ययश्चेति विग्रहः, तेन, तदभ्युपगमे-बाधाऽभ्युपगमे । किमित्याह-अतिप्रसङ्गात्, सर्व एवम्भूतः तदन्यस्य बाधक इत्यतिप्रसङ्गः । २५ दोषान्तरमाह कचिदित्यादिना । क्वचित्-मन्दमन्दप्रकाशादौ अभ्रान्तस्यापि, प्रक्रमात् ज्ञानस्य, असादौ असर्पादिविषयस्य तदन्यतः, भ्रान्ताज्ज्ञानादिति प्रक्रम एव । किमित्याह-बाधोपलब्धेश्च तथा रज्जुचलनादेः सर्पज्ञाने न तदसर्पज्ञानस्येति नालौकिकमेतदतो भावनीयमिति ।
दोषान्तरमभिधातुमाह-न चेत्यादि । न च अनर्थक्रियाकरणतोऽस्य ३० प्रान्ततेति वर्तते । कुत इत्याह-अप्राप्यदेशगतजलादिज्ञानेन व्यभिचारात्
१ 'वैकल्यात् तत्कार्या०' इति क-पाठः । २ 'प्रक्रमः । ततः कुत' इति क-पाठः । ३ 'प्रक्रमात सर्वज्ञस्य असदिौ ' इति क-पाठः ।