________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् ___ २२५
__ (मूलम्) अनेकान्तापत्ते खाभ्युपगमपरित्यागादिति ॥
एवमभ्रान्तत्वविशेषणमप्यसङ्गतमेव, परनीतितो व्यवच्छेद्यायोगात् । इन्दुद्वयादिज्ञानं व्यवच्छेद्यमिति चेत्, न, तस्याभ्रान्तत्वात्, ५ एतच लक्षणोपपत्तेः तस्यापि तत्प्रकाशकस्वभावत्वतस्तादृफलजननस्वभावहेतुजत्वतश्च भ्रान्तताऽसिद्धेः, अन्यथा तदयोगात्, तस्य चानुभवसिद्धत्वात्, न च बहिस्तद्विषयानुपलब्ध्या तत्सिद्धिः, तद्हणस्वभावधिया तद्विषयानुपलब्ध्यसिद्धेः, अन्यथाऽनुपलब्धौ
(स्वो० व्या०) लक्षणेन सविकल्पकमेव । इति चेत्, एतदाशङ्कयाह-न विरोधात् । अविकल्पकं सविकल्पं चेति विरोधः । अन्यथा-निमित्तभेदतो विरोधमन्तरेण । किमित्याह-अनेकान्तवादापत्तेः । ततः किमित्याह-वाभ्युपगमपरित्यागात् न इति योगः ॥ ___ एवं-यथा कल्पनाऽपोढत्वविशेषणं तथा अभ्रान्तत्वविशेषणमप्यसङ्गत-१५ मेव । कुत इत्साह-परनीतितो व्यवच्छेद्यायोगात् । इन्दुद्वयादिज्ञानम् 'आदि'शब्दाद् वियत्केशज्ञानादिग्रहः, व्यवच्छेद्यम् । इति चेत्, एतदाशयाहन, तस्य-इन्दुद्वयादिज्ञानस्य अभ्रान्तत्वात् । एतच्च-अभ्रान्तत्वं तल्लक्षणो. पपत्तेः-अभ्रान्तलक्षणोपपत्तेः । उपपत्तिश्च तस्यापि-इन्दुद्वयादिज्ञानस्य तत्प्रकाशकखभावत्वतः-इन्दुद्वयादिप्रकाशकस्वभावत्वेन ताहफलजनन-२० खभावहेतुजत्वतश्व-इन्दुद्वयादिज्ञानजननखभावहेतूत्पन्नत्वेन चास्य भ्रान्तताऽसिद्धेः, अन्यथा-एवमनभ्युपगमे तदयोगात्-इन्दुद्वयादिज्ञानायोगात् तस्य च-इन्दुद्वयादिज्ञानस्य अनुभवसिद्धत्वात् । न च बहिः-वियदादौ तद्विषयानुपलब्ध्या-इन्दुद्वयादिज्ञानविषयानुपलब्ध्या कारणेन तत्सिद्धिःभ्रान्ततासिद्धिः । कुत इत्याह-तहणखभावधिया-बहिस्तद्विषयग्रहणस्वभाव-२५ धिया, इन्दुद्वयादिग्रहणस्वभावबुद्ध्येत्यर्थः, तद्विषयानुपलब्ध्यसिद्धेः-इन्दुद्वयादिज्ञानविषयानुपलब्ध्यसिद्धेः। तद्ग्रहणस्वभावा हि तद् गृह्णात्येव, अन्यथा तत्खभावताऽयोगः । अन्येत्यादि । अन्यथा-अतद्ग्रहणस्वभावया, धियेति प्रक्रमः, अनुपलब्धिः बहिस्तद्विषयस्येति प्रक्रम एवेत्यन्यथाऽनुपलब्धिस्तस्याम् । किमि
१ 'प्रकाशकखभावहेतुजत्वजश्च' इति ग-घ-पाठः। २ 'विपक्षसज्ञानादि०' इति क-पाठः। ३ 'भावत्वेन इन्दु०' इति घ-पाठः। ४ 'तत्तत्व.' इति क-पाठः।
अनेकान्त. २९