________________
११४
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीया
(मूलम्) रागायोगात् क्लिष्टताऽसिद्धेरिति ॥
किञ्च एकान्तवादिनः सर्वथा कल्पनाऽपोढत्वे कल्पनाऽपोढ५ कल्पनातोऽप्यपोढत्वात्, कल्पनाऽपोढत्वलक्षणायोगः । प्रत्यक्षसामान्य लक्षणविषय इति चेत्, न, तस्य ततो व्यतिरिक्ततरविकल्पायोगात्, व्यतिरिक्तत्वे न तदध्यक्षलक्षणम् , अव्यतिरिक्तत्वे तूक्तवल्लक्षणायोगः । निरूपणानुस्मरणविकल्पाभ्यामविकल्पकं स्व. भावविकल्पेन तु सविकल्पकमिति चेत्, न, विरोधात्, अन्यथा
(खो० व्या०) त्वेन हेतुना । किमित्याह-विकल्पधियः-कल्पनाबुद्धेः अभावप्रसङ्गात् । प्रसङ्गश्च स्वसंविन्मात्रस्यैव भावात् । सर्वत्र "इयमेव कल्पनोपरक्ता विकल्पधीः" इत्यप्यसदित्यावेदयन्नाह-असत्याः कल्पनाया अवस्तुत्वेन । किमित्याहउपरागायोगात् स्वसंविदेव क्लिष्टा विकल्पधीरित्यप्ययुक्तिमत् । इत्याह-क्लिष्ट१५ ताऽसिद्धेरिति स्वसंविदात्रत्वेन, अतः स्थितमेतन्न चैतन्याय्यमिति ॥
दूषणान्तरमाह किनेत्यादिना । किञ्च एकान्तवादिनः वादिन एकान्तेन कल्पनाऽपोढमेतत् , ततश्च सर्वथा कल्पानाऽपोढत्वे सति । किमित्याह-कल्पनाऽपोढकल्पनातोऽप्यपोढत्वात् कारणात् कल्पनाऽपोढत्वलक्षणायोगः तत्र तद्योग्यताऽभावादिति । प्रत्यक्षसामान्यम्-अप्रत्यक्षव्यावृत्तिरूपं लक्षण२० विषय इति चेत्, तत्र तद्योग्यतेति भावः । एतदाशङ्ग्याह-न, तस्य-प्रत्यक्षसामान्यस्य ततः-प्रत्यक्षात् । किमित्याह-व्यतिरिक्ततरविकल्पाभ्यामयोगात् । आह च-व्यतिरिक्तत्वे प्रत्यक्षात् तत्सामान्यस्य न तदध्यक्षलक्षणम् , तद्व्यतिरिक्ततत्सामान्यलक्षणत्वात् , अव्यतिरिक्तत्वे तु प्रत्यक्षात् तत्सामान्यस्य
उक्तवत्-यथोक्तं तथा । किमित्याह-लक्षणायोगः, तत्र तयोग्यताऽभावादिति । २५ अत्राह-निरूपणानुस्मरणविकल्पाभ्यामेवम्भूतमेतदिति तदात्वे आयत्यां चैतद्गोचराभ्यामविकल्पकमेतत् , स्वभावविकल्पेन तु-कल्पनाऽपोढवभाव
(विवरणम्) (१७-१८) कल्पनाऽपोढकल्पनातोऽप्यपोढत्वादिति । प्रत्यक्षं कल्पनाऽपोढमेवंविधा अपि शब्दोल्लेखवती तत्र कल्पना न प्रवर्तत इत्यर्थः ॥ ३० (२५-२६) तदात्वे आयत्यां चैतद्गोचराभ्यामिति । निरूपणं तदात्वे, अनुस्मरणं त्वागामिनि काले ॥