________________
अधिकार] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
२२३ (मूलम्) इत्युक्तप्रायम्, अतो न निर्विकल्पकमेव प्रत्यक्षम् ।।
लक्षणायोगाच "प्रत्यक्षं कल्पनाऽपोढमभ्रान्तम्” इति लक्षणम् , न चैतन्न्याय्यम्, परनीत्याऽनेकदोषापत्तेः, कल्पनाऽपोढत्वस्याव्यापक- ५ त्वात्, कल्पनायामपि खसंविदः प्रत्यक्षत्वाभ्युपगमात्, तस्याश्च तदव्यतिरिक्तत्वात् व्यतिरिक्तत्वेऽधिकृतविशेषणायोगात् तत्त्वतो व्यवच्छेद्यानुपपत्तेः। अवस्तुत्वात् कल्पनायाः खंसंविदा तत्त्वेतरविकल्पाभ्यां दोषापादानमयुक्तमिति चेत्, न, तदवस्तुत्वेन विकल्पधियोऽभावप्रसङ्गात् खसंविन्मात्रस्यैव भावात् असत्या उप-१०
(स्त्रो० व्या०) एतदाशङ्कयाह-सन्यायतः-तत्त्वनीत्या अक्षज्ञानेन अविकल्पेन तद्विषयानधिगतेः-अनुमानविकल्पविषयानधिगतेः, कथं कस्यचिदधिगतिः कस्यचिन्नेत्येतदपि युक्तिमदिति ? । एतदाशङ्कयाह-वस्तुनोऽनेकधर्मत्वात् । एतदपि युगपदेव प्रायश इत्याह-क्षयोपशमवैचित्र्यादिति-एतदुक्तप्रायं-प्रायेणोक्तम् , अतो १५ न निर्विकल्पकमेव प्रत्यक्षमिति निगमनम् ॥ ___ तथा लक्षणायोगाच न निर्विकल्पकमेव प्रत्यक्षमिति । लक्षणायोगमाह-"प्रत्यक्षं कल्पनाऽपोढमभ्रान्तम्" इति लक्षणं परकीयम् । न चैतन्याय्यम् । कुत इत्याह-परनीत्या अनेकदोषापत्तेः अस्य लक्षणस्य । आपत्तिश्च कल्पनाsपोढत्वस्य लक्षणवेनोपन्यस्तस्य अव्यापकत्वात् । अव्यापकत्वं च कल्पना-२० यामपि स्वसंविदः परेण प्रत्यक्षत्वाभ्युपगमात् । कल्पनाऽपि स्वसंवित्ताधिष्ठानार्थे विकल्पनादिति । तस्याश्च-कल्पनायास्तदव्यतिरिक्तत्वात्-खसंविदव्यतिरिक्तत्वात् । इत्थं चैतदङ्गीकर्तव्यमित्याह-व्यतिरिक्तत्वे कल्पनायाः स्वसंविदोऽभ्युपगम्यमाने । किमित्याह-अधिकृतविशेषणायोगात् । अयोगश्च तत्त्वतः-परमार्थेन व्यवच्छेद्यानुपपत्तेः सर्वस्या एव स्वसंविदः कल्पनाऽपोढ-२५ त्वात् । अत्राह-अवस्तुत्वात् कल्पनायाः स्वसंविदा सह तत्त्वेतरविकल्पाभ्याम्, तत्त्वान्यत्वविकल्पाभ्यामित्यर्थः, दोषापादनमनन्तरोदितमयुक्तम्। इति चेत्, एतदाशङ्कयाह-न-नैतदेवं तदवस्तुत्वेन तस्याः-कल्पनाया अवस्तु
१ 'खसंविद्यातत्वेतर.' इति ग-पाठः । २ 'वस्तुतत्त्वेन' इति ग-घ-पाठः । ३ 'खसंवित्ता. विष्टानार्थे' इति क-ङ-पाठः । ४ 'तस्याच कल्पनायाः' इति क-पाठः ।