________________
२२२
अनेकान्तजयपताकाख्यं प्रकरणम् .. [तृतीयः
(मूलम्) काशः समारोपः, न चासावन्यनिमित्तोऽनिमित्तो वा । अथ समारोपजननस्वभावः कुतोऽस्मान्निश्चयजन्म, अतत्वभावेऽतिप्रसङ्गात् ? ५ उभयजननखभावत्वे विरोधः, न्यायाविरोधेऽप्यभ्युपगमबाधा ।
अनुभयजननवभावत्वे तदुभयाभावः, तथा च प्रतीतिविरोधः। इति एकान्तेन च निर्विकल्पकप्रत्यक्षवादिनो न न्यायतो रूपादिनिश्चया-ऽनुमाननिश्चययोर्भेद इति सूक्ष्मधिया भावनीयम् ॥
कथं तानुमान विकल्पो नानन्तरम् ? सन्न्यायतोऽक्षज्ञानेन तद्विषयानधिगतेः । वस्तुनः अनेकधर्मत्वात् क्षयोपशमवैचित्र्यात्
(खो० व्या०) भावः, आहोखिदुभयजननखभावः, उताहो अनुभयजननखभाव इति ?। किश्चातः ? सर्वथाऽपि दोष इति । आह च-यदि स्वगृहीतनिश्चय
जननखभावः, ततः किमित्याह-निरवकाशः समारोपः, तन्निमित्ताधि१५ गमस्य स्वगृहीतनिश्चयजननस्वभावत्वात् । न चासौ-समारोपोऽन्यनिमित्तोऽ. निमित्तो वा । किं तर्हि ? । अधिकृताधिगमनिमित्त एव, तदाऽन्यस्याभावात् ।
अथ समारोपजननस्वभावोऽधिकृताधिगमः,कुतोऽस्मान्निश्चयजन्म?। कथं च न स्यादित्याह-अतत्वभावादधिकृताधिगमात् समारोपजननवभावत्वेन भावे निश्चयजन्मनोऽतिप्रसङ्गात् तद्वन्निश्चयान्तरभावेन । २० उभयजननखभावत्वे-खगृहीतनिश्चयसमारोपोभयजननवभावत्वे विरोधः । न्यायाविरोधेऽपि तत्तथाचित्रस्वभावतया अभ्युपगमबाधा, अनेकान्तवादापत्तेः । __ अनुभयजननस्वभावत्वेऽधिकृताधिगमस्य किमित्याह-तदुभयाभावःनिश्चयसमारोपोभयाभावोऽस्त्वित्यारेकाऽपोहायाह-तथा च-एवं च सति प्रतीति२५ विरोधः, तदुभयस्य तथावेदनात् ।
इति-एवमुक्तनीत्या एकान्तेन निर्विकल्पकप्रत्यक्षवादिनः वादिनो न न्यायत:-उक्तनीत्या रूपादिनिश्चया-ऽनुमाननिश्चययोर्भेद इति-एतत् सूक्ष्मधिया भावनीयम् ॥
आह-यद्येवं कथं तर्खनुमानविकल्पो नानन्तरम् ?, दर्शनस्येति प्रक्रमः । १ 'भावनिश्चयः' इति घ-पाठः ।