________________
अधिकारः] स्वोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् २२१
(मूलम्) दिनिश्चयादेव प्रवृत्तेः । व्यवहारे प्रमाणमेवायमिति चेत्, क तर्हि अप्रमाणमिति? । रूपादावेवेति चेत्, कुतोऽयं तत्राकारणो द्वेषः ?। प्रागेव तदधिगमादिति चेत्, समानोऽयं त्वन्नीत्याऽनित्यत्वादौ,५ तथापि न तद्वत् तदर्शनमिति चेत्, न तर्हि प्राक् तद्वत् तदधिगमोऽन्यथा रूपादि निश्चयवत् स्यात् तदैवायं, निमित्ताविशेषात्, तदधिगमस्यैव तत्त्वतस्तन्निमित्तत्वाद् बाधकानुपपत्तरविशेषेण भावात् एकान्तैकत्वात् , अन्यथा तद्नुपपत्तेः॥
किञ्चायमधिकृताधिगमः, किं खगृहीतनिश्चयजननवभावः, उत १० समारोपजननखभावः, आहोखिदुभयजननवभावः, उताहो अनुभयजननवभाव इति? । यदि स्वगृहीतनिश्चयजननवभावः, निरव
(स्वो० व्या०) अपि-रूपादिविकल्पे सति रूपादिनिश्चयादेव प्रवृत्तेः इति व्यवहारे-प्रवृत्त्यादिरूपे प्रमाणमेवायं-रूपादिविकल्पः । इति चेत्, एतदाशक्याह-क तय- १५ प्रमाणमिति। रूपादावेवेति चेदप्रमाणं कुतोऽयं तत्र रूपादौ-अकारणो द्वेषः । प्रागेव अविकल्पेन तदधिगमात्-रूपाद्यधिगमात् । इति चेत्, एतदाशङ्याह-समानोऽयम्-अधिगमस्त्वन्नीत्यानित्यत्वादी अनुमेये तथापिएवमपि न तद्वत्-रूपादिवत् तदर्शनं-नित्यत्वादिदर्शनम् । इति चेत्, एतदाशङ्कयाह-न तर्हि प्रागविकल्पेन तद्वत्-रूपादिवत् तदधिगमः-अनित्यत्वाद्य-२० धिगमः, अन्यथा यदि स्यात् ततो रूपादिनिश्चयवत् स्यात् तदैवायम्नित्यत्वादिनिश्चयः । कुत इत्याह-निमित्ताविशेषात् । अबिशेषश्च तदधिगमस्यैव-अविकल्पेन रूपाद्यधिगमस्यैव तत्त्वतः-परमार्थेन तनिमित्तत्वात्अनित्यत्वादिनिश्चयनिमित्तत्वात् बाधकानुपपत्तेः रूपादिनिश्चयानुमानेन । तथा चाह-अविशेषेण भावात्-रूपायधिगमवदनित्यत्वाद्यधिगमत्वेन भावात् । २५ भावश्च एकान्तैकत्वात् अधिकृताधिगमस्य । इत्थं चैतदङ्गीकर्तव्यमित्याहअन्यथा तदनुपपत्तेः-एकान्तैकत्वानुपपत्तेरविकृतानुभवस्य रूपादिनिश्चयवत् स्थात् तदैवायमिति स्थितम् ॥
दूषणान्तरमभिधातुमाह-किश्चेत्यादि । किञ्च अयमधिकृताधिगमः अविकल्परूपः किं स्वगृहीतनिश्चयजननखभावः, उत समारोपजननख-३० १ पत्तेः विशेषेण' इति ग-घ-पाठः ।