________________
२२०
अनेकान्तजयपताकाख्यं प्रकरणम् [सृतीयः
(मूलम्) त्वात् । अनालोचिताभिधानत्वं च प्राधे आकाराभावात् सर्वथैकखभावत्वाभ्युपगमात्, परिकल्पितानामसत्त्वात् तत्त्वेन, तत्सत्त्वे नियमतोऽतिप्रसङ्गात्, तथा युक्तितो व्यास्यसिद्धेः, तावस्य कथञ्चिद् भेदनिमित्तत्वात्, अन्यथा तदयोगात्। न ह्यभेदवत एवानित्यत्वस्य स्वात्मना व्याप्तिः, न च भिन्नयोरेव 'हिमवद्'-'विन्ध्य'योः तथाऽनधिगतार्थाधिगन्तृत्वाभावात् , वस्तुरूपस्याध्यक्षत एवाधिगमात्, स्वाधिगमस्य चेतरत्रापि भावात्, तदन्यस्य चेतरत्राप्य. १० भावादिति । एवं प्रवर्तकत्वाद्ययस्य समानमितरेण, तत्रापि रूपा
(खो० व्या०) असारमित्यर्थः । कुत इत्याह-अनालोचिताभिधानत्वात् कारणात् । अनालोचिताभिधानत्वं च ग्राह्य-वस्तुनि आकाराभावात् । अभावश्च सर्वथा
एकान्तेन एकस्वभावत्वाभ्युपगमाद वस्तुन इति परिकल्पितास्ते इति । १५एतदपोहायाह-परिकल्पितानाम्-आकाराणामसत्त्वात् तत्त्वेन तत्सत्त्वेपरिकल्पिताकारसत्त्वे नियमत:-नियमेन अतिप्रसङ्गात् परिकल्पनया विरोध्याकारभावेन तथा युक्तितः-न्यायतः व्याप्त्यसिद्धेः कारणात् । असिद्धिश्च तद्भावस्य-व्याप्तिभावस्य कथञ्चिद् भेदनिमित्तत्वात् , व्याप्य-व्यापकयोरिति प्रक्रमः । किमित्येतदेवमित्याह-अन्यथा-एवमनभ्युपगमे व्याप्य-व्यापकयोरेका२०न्ताभेदादावित्यर्थः, तदयोगात्-व्याप्तिभावायोगात् । एतदेव भावयति न हीत्यादिना । न यस्मादभेदवत एव, एकान्तैकस्यैवेत्यर्थः, अनित्यत्वस्य स्वात्मनाअनित्यत्वेनैव व्याप्तिः, अनित्यत्वस्यानित्यत्वेन व्याप्तिरिति व्यवहारायोगात् । न च भिन्नयोरेव-एकान्तेन 'हिमवद्'-'विन्ध्य'योः स्वात्मना व्याप्तिरिति भावनीयम् । तथाऽनधिगतार्थाधिगन्तृत्वाभावादनुमानविकल्पस्य, अभावश्च वस्तु२५ रूपस्याध्यक्षत एव-प्रत्यक्षेणैवेत्यर्थः, अधिगमात् ततश्चात्मानमेवाधिगच्छत्यनुमानविकल्प इति पराभ्युपगमः । एनमेवाधिकृत्याह-वाधिगमस्य चेतरत्रापिरूपादिविकल्पे भावात्, तदन्यस्य च अनधिगतस्य इतरत्रापि-अनुमानविकल्पेऽपि अभावादिति अनालोचिताभिधानत्वमिति । एवं प्रवर्तकत्वाद्यप्यस्य, प्रक्रमादनुमानविकल्पस्य समानमितरेण-रूपादिविकल्पेन । कुत इत्याह-तत्र
'तत्त्वेन' इत्यधिकः क-पाठः। २ सिद्धेः अतद्भावस्य' इति घ-पाठः। ३ 'खात्मना व्याप्तिः' इति पाठो घ-पुस्तके न विद्यते।