________________
१०
अधिकारः] स्वोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम् २१९
(मूलम् ) अर्थस्य परामर्शात्, न हि अनुमानविकल्पोऽपि नैवमिति परिभाव्यतामेतत् ॥
न हि प्रत्यक्षं भागशः उत्पद्यते, निरंशत्वात् । सत्यं नोत्पद्यत ५ इति । अनुमानविकल्पपरामर्शालम्बनमपि तत्र गृहीतमेव केवलं गृहीतेऽपि येष्वाकारेषु न तदनन्तरमेव निश्चयोत्पत्तिर्भूयसा व्याप्तिदर्शनात् तु भवति, तद्विषय एवानधिगतार्थाधिगन्तृत्वात् । प्रमाणमनुमानविकल्पो नेतर इति यत्किञ्चिदेतत्, अनालोचिताभिधान
(स्वो० व्या०) विकल्पः । किमित्याह-गृहीतग्राह्येव । कुत इत्याह-प्रत्यक्षप्रतिभासिनः अर्थस्य-रूपादेः परामर्शात् कारणात् । स हि तमेव स्पृशति नाधिकं परिच्छिनत्ति, अतो न प्रमाणमिति । एतदाशयाह-न हीत्यादि । न हि अनुमानविकल्पोऽपि नैवम् , किं तर्हि ? एवमेव गृहीतग्राह्येव इत्यादीनि परिभाव्यतामेतत् । स्वभावहेतौ सुज्ञानमेव कृतकस्यैवानित्यत्वात् कार्यहेतावपि वह्निजन्यस्वभावो १५ धूमः तत्त्वेन प्रत्यक्षेण प्रतिभासते, अन्यथा तत्प्रतिभासाभाव इति भावनीयम् ॥
तथा चाह-न हि प्रत्यक्षं भागशः-भागेन उत्पद्यते । कुत इत्याह-तस्य निरंशत्वात् । खेलक्षणमेतदिति निरंशं सत्यं नोत्पद्यते भागशः प्रत्यक्षमितिअस्मादनुमानविकल्पपरामर्शालम्बनमपि तत्र-वस्तुनि गृहीतमेव, प्रक्रमात् प्रत्यक्षेण केवलं गृहीतेऽपि सति येष्वाकारेषु-अनित्यत्वादिषु न तद-२० नन्तरमेव-न दर्शनानन्तरमेव निश्चयोत्पत्तिर्भूयसा-बाहुल्येन व्याप्तिदर्शनात् तु-अविनाभावदर्शनेन पुनर्भवति तद्विषय एव-अनित्यत्वादिविषय एव अनधिगतार्थाधिगन्तृत्वात् कारणात् प्रमाणमनुमानविकल्पो नेतर:-रूपादिविकल्प इति । एतदाशङ्कयाह-यत्किञ्चिदेतत्-अनन्तरोदितम् ,
(विवरणम्) (१६) अन्यथा तत्प्रतिभासाभाव इति । धूमस्य ह्यग्निजन्यत्वं स्वरूपं तच्च न प्रतिभासते धूमज्ञाने, एवं तर्हि तद्भूमज्ञानमेव न स्यात् , तत्स्वरूपाप्रतिभासनात् । अतोऽवश्यमेवाभ्युपगन्तव्यमिदं यदुत वह्निजन्यस्वभावो धूमः प्रतिभासते । अतः परमार्थतो वह्निरपि तत्र प्रतिभासत इत्यायातम् । एवं च धूमग्राहिणैव प्रत्यक्षेण गृहीते धूमध्वजे तत्साधनाय प्रवर्तमानमनुमानं गृहीतग्राह्येव स्यादिति ॥
१ 'न तु तद.' इति ग-घ-पाठः। २'नाधिकं परिच्छिन्नं परिच्छिनत्ति' इति क-पाठः । ३ 'इत्यादि परि०' इति घ-पाठः, ङ-पाठस्तु 'इत्यादीति परि०' इति । ४ 'सुलक्षण' इति घ-पाठः।
२५