________________
२१८ अनेकान्तजयपताकाख्यं प्रकरणम्
[तृतीय: (मूलम्) शकलादौ रजतादिसमारोपव्यवच्छेदेन तद्भावात् । न च न सोऽपि रूपादिविकल्पः, तन्मात्रहेतुत्वात् । न च तत्त्वत एकस्यापि तदितर५ नाशनेन प्रवृत्तिः, नाशस्य निर्हेतुकत्वाभ्युपगमात्, तदभाव एव तद्भावोपपत्तेः । लिङ्गलिङ्गिसम्बन्धस्मरणादिनाप्रवृत्तेरिति चेत्, कोऽयं गुणे भवतो दोषाभिनिवेशः वस्तुसमारोपाभावेऽस्योपयोगात्? । न च नासौ रूपादिविकल्पस्थापि, तदभावे तत्प्रवृत्त्यनुपपत्तेरिति नानयोर्विशेषः। स खलु गृहीतग्राह्येव, प्रत्यक्षप्रतिभासिनः
(खो० व्या०) इति चेत्, नह्ययमनुमानविकल्पवत् समुद्भूतसमारोपव्यवच्छेदेन भवति । एतदाशङ्कयाह-नेत्यादि । न, कचिद् वस्तुनि तथापि-समुद्भूतसमारोपव्यवच्छेदेनापि भावदर्शनेन-उत्पाददर्शनेन हेतुना रूपादिविकल्पस्य अविरोधात् प्रमाणत्वस्य । एतदेवाह-शुक्तिकाशकलादौ वस्तुनि रजतादिसमारोपव्यवच्छेदेन १५ तावात्-शुक्तिकादिविकल्पभावात् । न चेत्यादि । न च न सोऽपि
शुक्तिकाविकल्पो रूपादिविकल्पः, किन्तु रूपादिविकल्प एव । कुत इत्याह-- तन्मात्रहेतुत्वात्-रूपादिमानहेतुत्वात् । न च तत्त्वतः-परमार्थेन एकस्यापि अनुमानविकल्पस्य रूपादिविकल्पस्य वा तदितरनाशनेन-समुद्भूतसमारोपनाशनेन अञ्जसा प्रवृत्तिः । कुतो न इत्याह-नाशस्य निर्हेतुकत्वाभ्युपगमात् तथा २० तदभाव एव-समारोपाभावे एव तद्भावोपपत्तेः-अनुमानादिविकल्पभावोपपत्तेः। इहैव परिहारान्तरमुपन्यस्यन्नाह-लिङ्गलिङ्गिसम्बन्धस्मरणादिना प्रकारेण अप्रवृत्तेः कारणात् इति चेत्, रूपादिविकल्पो न प्रमाणमिति प्रक्रमः । एतदाशक्याह-कोऽयं गुणे भवतो दोषाभिनिवेशः। ननु लिङ्गलिङ्गिसम्बन्धस्मरणादिप्रवृत्तिमन्तरेण तद्भवनं गुणः । प्रस्तुतसमर्थनायाह-वस्तुसमारोपाभावे २५ अस्य-अनुमानविकल्पस्य उपयोगात् । न च नासौ रूपादिविकल्पस्थापि वस्तुसमारोपाभावे उपयोगः, किन्तु अस्त्येव । कुत इत्याह-तदभावेवस्तुसमारोपाभावोपयोगाभावे समारोपभावेन तत्प्रवृत्त्यनुपपत्तेः-रूपादिविकल्पप्रवृत्त्यनुपपत्तेः । अस्ति च प्रवृत्तिरिति नानयोः-अनुमानविकल्प-रूपादिवि
कल्पयोर्विशेषः। अतः कथमनुमानविकल्पवद् रूपादिविकल्पो न प्रमाणमित्या३० ख्येयमेतत् । प्रस्तुतमाचिख्यासुराह-स खल्वित्यादि । स खलु, प्रक्रमाद् रूपादि
१'प्रमाणं त्वस्य एतदेवाह' इति क-पाठः। २ 'शुक्तिकाररूपो विकल्पो' इति क-पाठः ।