________________
२१०
अधिकारः] खोपनव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) पत्तावपि पुनर्नित्यादिनिश्चयोपलब्धः, वस्तुन एव पारम्पर्येण तद्भावात्, तदन्यतरापरनिमित्तत्वे तदितरत्र तनिमित्तत्वानाश्वासात्, विशेषहेत्वभावात्, अनित्यस्यापि अर्थक्रियाऽयोगादिति निर्लोठयिष्यामः॥
किञ्च समारोपव्यवच्छेदभावाविशेषादनुमानविकल्पवत् कथं रूपादिविकल्पो न प्रमाणम् । समुद्भूतसमारोपव्यवच्छेदेनाभावात् इति चेत्, न, कचित् तथापि भावदर्शनेनाविरोधात्, शुक्तिका
(खो० व्या०) अनित्यादिप्रतिपत्तावपि सत्यां तथागतवचनादेः पुनर्नित्यादिनिश्चयोपलब्धेः कपिलादिवचनादेवस्तुन एव सकाशात् तस्याः-नित्यादिनिश्चयोपलब्धेः पारम्पर्येण भावात्-तदाश्रयत्वाद् वचनप्रवृत्तेः । यद्वा वचनमन्तरेणापि खत एव क्वचिदेवम्भावात् । तथाहि-वस्तुन्यनित्यत्वविकल्पोऽपि भवति, नित्यत्वविकल्पोऽपि भवतीति लौकिकमेतत् । एवं च सति तदन्यतरापर-१५ निमित्तत्वे तयोः-समारोप-निश्चययोरन्यतरस्य-समारोपस्य अपरनिमित्तत्वेऽभ्युपगम्यमाने तदितरत्र अपि निश्चये तन्निमित्तत्वानाश्वासात्-अधिकृतवस्तुनिमित्तत्वानाश्वासात् । इह तावदनित्यादिप्रत्तिपत्तिर्वस्तुनिमित्तेति भवतो मतम् , इहापि अनाश्वासः, तत्तुल्ययोगक्षेमाया नित्यादिनिश्चयोपलब्धः अतन्निमित्तत्वाभ्युपगमादिति भावः । अनाश्वासश्च विशेषहेत्वभावाद् द्वयोरपि तथा तद्दर्शना-२० नन्तरभावित्वेन नित्यस्य सत्ता एव असम्भविनी, क्रम-योगपद्याभ्यामर्थक्रियायोगादिति । विशेषहेतुनिराचिकीर्षयाऽऽह-अनित्यस्यापि निरन्वयक्षणस्थितिधर्मिणः अर्थक्रियाऽयोगादिति-एतत् निर्लोठयिष्यामः पुरस्तात्, अत एतदपि अयुक्तमिति स्थितम् ॥
अभ्युच्चयमाह किञ्चेत्यादिना । किञ्च समारोपव्यवच्छेदभावाविशेषात् २५ कारणात् अनुमानविकल्पवदिति दृष्टान्तः । कथं रूपादिविकल्पोन प्रमाणं प्रमाणलक्षणयोगेऽपि ? । एतदाशयाह-समुद्भूतसमारोपव्यच्छेदेनाभावात्
(विवरणम् ) (१६) अपरनिमित्तत्वे इति । वासनाप्रबोधनिमित्तत्वे अवस्तुनिमित्तत्वे इत्यर्थः ।।
१तभावत्वात्' इति ग-पाठः ।
अनेकान्त०२८