________________
२१६ अनेकान्तजयपताकाख्यं प्रकरणम्
तृतीयः (मूलम्) वस्तुविषयत्वे यदुक्तं 'पुरस्तात् 'नह्यन्य एवान्योपकारको नाम
इत्यादि, तदयुक्तमेव, परमार्थतो निर्विषयत्वात् । न च वस्त्वपि तदे.५ कमनेकधर्मोपकारकशक्तिमदिष्यते जैनैः, एकानेकखभावत्वाभ्युपगमात् पृथग्भूतधर्म्यसिद्धेरिति कृतमत्र प्रसङ्गेन ॥
यचोक्तम्-'समारोप-निश्चययोर्वाध्यबाधकभावात् इति एतदप्ययुक्तम् , परनीत्या समारोप-निश्चययोर्भेदासिद्धेः समारोपस्यापि निश्चयत्वात् , तदभावभावित्वस्य चोभयत्राविशेषात् । पौर्वापर्यस्य १० चानियामकत्वात् कचित् तस्यापि तुल्यत्वात्, अनित्यादिप्रति
(खो० व्या०) प्रत्यक्षादीनां वस्तुविषयत्वे यदुक्तं पुरस्तात्-पूर्वपक्षग्रन्थे 'नयन्य एवान्योपकारको नाम' इत्यादि तत् किमित्याह-तदयुक्तमेव । परमार्थतो निर्विषयत्वात् तस्योक्तस्य । न चेत्यादि । न च वस्त्वपि तदेकं सत् अनेक१५ धर्मोपकारकशक्तिमदिष्यते, वैशेषिकैरिव जैनैः। कुत इत्याह-एकानेक
खभावत्वाभ्युपगमात् कारणात् पृथग्भूतधर्म्यसिद्धर्धर्मधर्मिस्वभावत्वाद् वस्तुन इति कृतमत्र प्रसङ्गेन ॥
यञ्चोक्तमधिकृतपूर्वपक्षे-'समारोप-निश्चययोर्वाध्यबाधकभावात् इत्येतदप्ययुक्तम् । कथमित्याह-परनीत्या समारोप-निश्चययोर्भेदा२० सिद्धेः। असिद्धिश्च समारोपस्यापि शुक्तिकादौ रजतादिरूपस्य निश्चयत्वात् । .. तथाहि--शुक्तिकायां रजतनिश्चय एव समारोप; तदभावभावित्वस्य च
शुक्तिकाद्यभावभावित्वस्य 'च'शब्दात् तदनुभवोपादानत्वस्य च उभयत्र-समारोपे - निश्चये च अविशेषात् । नपत्रान्यत् समारोपस्याप्युपादानम् , अपि त्वधिकृतानुभव ' एव पौर्वापर्यस्य च-पूर्व समारोपः पश्चान्निश्चय इत्येवम्भावस्य च अनियामक२५ त्वाद् भेदं प्रति तथा कचित् तस्यापि-पौर्वापर्यस्य तुल्यत्वात् । एतदेवाह
(विवरणम् ) (२२) शुक्तिकाद्यभावभावित्वस्य चेति । विनष्टे हि शुक्तिकाक्षणे न तद्गोचरः समारोपो निश्चयो भवतीति ।। - (२२) तदनुभवोपादानत्वस्य चेति । शुक्तिकागोचरनिर्विकल्पकानुभवानन्तरं ३० निश्चयः समारोपो वा जायत इति ॥ .. ११४३तमे पृष्ठे । २२०९तमे पृष्ठे । ३ 'वा नियामक०' इति ग-पाठः। ४ १४३तमे पृष्ठे । ५२०९तमे पृष्ठे । ६ वाऽनियामक.' इति -पाठः। 'क्षणे नागोचरः' इति क-पाठः।