________________
अधिकार] स्वोपनव्याख्यामुनिचन्द्रीयविवरणयुतम् २१५
(मूलम्) — एवं च यत्र स्वत एव निश्चयः स प्रत्यक्षा, यत्र तु न सोऽनुमेय इति सन्यायप्राप्तिः, अन्यथाऽसमञ्जसत्वात् । न चैवं सविकल्पकप्रत्यक्षवादिनोऽप्यनेकखभावत्वाद् वस्तुनः क्षयोपशमवैचित्र्येण ५ तथा निश्चयप्रवृत्ती कश्चिद दोषः, निरुपचरिततनिबन्धनभावात् । दृश्यते च कथञ्चिदेकत्रैवैकानेकप्रमात्रपेक्षः शब्द-लिङ्गा-ऽध्यक्षः प्रतीतिभेदः। तथाहि-अत्र निकुञ्ज वह्निरस्तीति शब्दतस्तथाविधदेशमात्रावच्छिन्नमग्निसामान्यं प्रतीयते, धूमदर्शनात् तु विशिष्टदेशापच्छिन्नस्तद्विशेषः, अध्यक्षतस्तु विशिष्टतरो ज्वालादिरित्यागोपाला-10 झनाप्रसिद्धत्वादत्याज्य एष इति । एवं च सन्न्यायसिद्धे प्रमाणानां
(खो० व्या०) बन्धनाः, न तन्निबन्धना अतन्निबन्धनास्तद्भावस्तस्मिन्नतन्निबन्धनत्वे चावस्तुनिबन्धनत्व इत्यर्थः । केषामित्याह-निश्चयानां न तेभ्य:-निश्चयेभ्यस्तत्तत्त्व- व्यवस्था-वस्तुतत्त्वव्यस्था इत्युक्तं प्राक् ॥
एवं च यत्र-अंशे वस्तुज्ञानसम्बन्धिनि नीलादौ खत एव निश्चयः समारोपव्यवच्छेदमन्तरेण स प्रत्यक्षोशः, यत्र तु नानित्यत्वादौ सोऽनुमेय इति सन्यायप्राप्तिः । कुत इत्याह-अन्यथाऽसमञ्जसत्वादित्येतच्च निदर्शितमसकृत् । यदि नामैवं ततः किमित्याह-न चैवं सविकल्पकप्रत्यक्षवादिनोऽपि वादिनोऽनेकखभावत्वाद् वस्तुनः क्षयोपशमवैचित्र्येण हेतुना तथा-२० निश्चयप्रवृत्ती अनन्तरोदितक्रमेण कश्चिद् दोषः । कथं न दोष इत्याह-निरुपचरिततनिबन्धनभावात्, वास्तवप्रवृत्तिनिबन्धनभावादित्यर्थः । अमुमेवार्थमुप्दर्शयति दृश्यते चेत्यादिना । दृश्यते च कथञ्चिदेकत्रैव-वस्तुनि एकानेकप्रमात्रपेक्षः शब्द-लिङ्गा-ऽध्यक्षः-आगमा-ऽनुमान-प्रत्यक्षैः प्रतीतिभेदः। . तथाहि-अत्र निकुळे वह्निरस्तीति शब्दतः-शब्दात् तथाविधदेश-२५ मात्रावच्छिन्नं सत् अग्निसामान्यं प्रतीयते, धूमदर्शनात् तु विशिष्टदेशावच्छिन्नस्तद्विशेषः-अग्निविशेषः पूर्वसामान्यापेक्षया अध्यक्षतस्तु-प्रत्यक्षेण पुनर्विशिष्टतरो ज्वालादिः प्रतीयत इत्यागोपालाङ्गनाप्रसिद्धत्वात् कारणादत्याज्य एषः-प्रतीतिभेद इति। एवं च सन्यायसिद्धे सति प्रमाणानां
१'वाऽवस्तु ०' इति क-पाठः।
२ २१०तमे पृष्ठे।
३ च तदेकत्रैव' इति क-पाठः।