________________
२१४
अनेकान्तजयपताकाख्यं प्रकरणम् .
[तृतीया
तथाऽसम्भवाच्च । एतेन 'यत्र तु प्रतिपत्तुर्धान्तिनिमित्तं नास्ति तत्रैवास्य दर्शनाविशेषेऽपि पाश्चात्यो निश्चयो भवति समारोप-निश्चय५ योर्बाध्यबाधकभावात्' इति यदुक्तं तदपि प्रत्युक्तमेव, सर्वथैकस्ख.
भावत्वे वस्तुनो दर्शने चेत्थमभिधानायोगात्, एकत्र भ्रान्तिनिमित्तसंम्भवे सर्वत्र तदापत्तेः, तत्तदेकखभावत्वतत्त्वात्, अन्यथा यत्र भ्रान्तिनिमित्तं न, यत्र चास्त्यनयोः कथञ्चिद् भेद इति बलात् तदनेकखभावता, शुक्तिकादावपि तन्नियमाभावाच्च, १० 'अतन्निबन्धनत्वे च निश्चयानां न तेभ्यस्तत्त्वव्यवस्था' इत्युक्तम् ॥
(स्वो० व्या०) अस्य च-प्रक्रान्तसदृशानुभवस्य उक्तवत्-यथोक्तं तथा न्यायबाधितत्वात् क्षणिकत्वेन हेतुना तथा प्रदीर्घबोधानुभवरूपेण असम्भवाच । तथाहिनिश्चयानुभवोऽपि क्षणिक एवेति भावना । एतेनेत्यादि । एतेन-अनन्तरोदितेन १५ वस्तुजातेन 'यत्र तु प्रतिपत्तुओन्तिनिमित्तं नास्ति, तत्रैवास्य दर्शनाविशेषेऽपि पाश्चात्यो निश्चयो भवति, समारोप-निश्चययोर्बाध्यबाधकभावात्' इति यदुक्तं तत् किमित्याह-तदपि प्रत्युक्तमेव । कथमित्याहसर्वथैकखभावत्वे वस्तुनो बाह्यस्य दर्शने च तस्य इत्थं यथोक्तं तथाऽभिधानायोगात्। अयोगश्च एकत्र-वस्तुनि भ्रान्तिनिमित्तसम्भवे सति सर्वत्र २० तदापत्तेः-भ्रान्तिनिमित्तसम्भवापत्तेः । आपत्तिश्च तत्तदेकस्वभावत्वतत्त्वात् तस्य-वस्तुनो भ्रान्तिनिमित्तसम्भवैकस्वभावत्वरूपत्वात् । अन्यथेत्यादि । अन्यथाएवमनभ्युपगमे यत्र-वस्तुनि भ्रान्तिनिमित्तं न घटपटादौ, यत्र चास्ति शुक्तिका रजतादौ अनयोः-वस्तुनोः कथञ्चित् स्वभावभेदः, वस्त्वभेदेऽपि स्वसत्ताभेद इति-एवं बलात् तदनेकस्वभावता तस्य-वस्तुनः सामान्येन २५ अनेकस्वभावता । तदेकान्तैकस्वभावत्वे तु नैतदुपपद्यत इति ।
उपपत्त्यन्तरमाह-शुक्तिकादावपि-शुक्तिका-रजतादौ अपि तन्नियमाभावाच, प्रक्रमाद् भ्रान्तिनिमित्तसम्भवस्वभावत्वनियमाभावाच, बलात् तदनेकस्वभावतेति वर्तते । तथाहि-न शुक्तिकादावपि सर्वस्य समारोप एव कस्यचिद् दर्शनानन्तरं शुक्तिकानिश्चयः, अपरस्य तदा तत्रैव समारोप इति नैतदेकान्तैकस्वभावत्वे ३० वस्तुन इति भावनीयम् । अतदित्यादि । तत्-वस्तु निबन्धनं-कारणं येषां ते तन्नि. १२०९ तमे पृष्ठे । २ 'सम्भवेऽपि सर्वत्र' इति क-पाठः। ३ 'पदार्थबोधा.' इति घ-पाठः । ४ २०९ तमे पृष्ठे। ५ 'भावत्वे नैत.' इति -पाठः। ६ २१० तमे पृष्ठे। .