________________
अधिकारः]
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
२१३
न युक्तमस्येमामक्रमागतामवगमश्रियं प्रतिपत्तुं तत्पूर्वक्षणानां च न्यायतस्तबीजाभाव उक्तः। तथाऽनुभवसिद्धत्वात् सर्वं भद्रकमिति चेत्, न खल्पनुभव इत्येव तत्त्वव्यवस्थाहेतुः, न्यायबाधित- ५ स्य तदनुपपत्तेः, अस्य चोक्तवन्यायबाधितत्वात्, क्षणिकत्वेन
(स्त्रो० व्या०) सन्तानप्रवृत्त्या अन्त्यक्षणभावानुभववीर्योत्पन्ननिश्चयादिति भावः, तत्-सादृश्यमवगम्यते । इति चेत्, एतदाशङ्कयाह-न युक्तमस्य-निश्चयस्य इमामक्रमागतामन्वयाभावेन अवगमश्रियं अंदीघार्थतया विसदृशबोधरूपां प्रतिपत्तुं० यदाह कश्चित्
"असत्सङ्गाद् दैन्यात् प्रखलचरितैर्वा बहुविधै. रसद्भूतैर्भूतिर्यदि भवति भूतेरभवनि सहिष्णोः सद्बुद्धेः परहितरतस्योन्नतिमतः
परा भूषा पुंसः स्वविधिविहितं वल्कलमपि ॥" स्वविधिश्च क्षणिकस्य परतो निरपेक्षितेति भावनीयम् । तत्पूर्वक्षणानां चविवक्षितक्षणभावानुभवपूर्वक्षणानां च न्यायत:-न्यायेन निरन्वयनश्वरतया तद्बीजाभावः-विवक्षितक्षणबीजाभाव उक्तःप्राग ‘नित्यानित्यवस्तुनिरूपणा'ऽधिकारे 'एकान्त' इत्यादिना ग्रन्थेन । तथेत्यादि । तथाऽनुभवसिद्धत्वात्-सदृशत्वेन अनुभवसिद्धत्वात् कारणात् सर्वम्-अस्मदुक्तं भद्रकम् । इति चेत्, एतदा-२० शक्याह-न खलु-नैव अनुभव इत्येव एतावताऽशेन तत्त्वव्यवस्थाहेतुः। कथं नेत्याह-न्यायवाधितस्य अनुमवस्य तदनुपपत्तेः-तत्त्वव्यवस्थाहेतुत्वानुपपत्तेः 'नीत्या द्विचन्द्रानुभवादौ तथाऽभ्युपगमादिति । यदि नामैवं ततः किमित्याह
(विवरणम्) (७) सन्तानप्रवृत्त्या अन्त्यक्षणभावानुभववीर्योत्पन्ननिश्चयादिति भाव २५ इति । सन्ताने प्रवृत्तो योऽसावन्त्यक्षणस्तस्य योऽसौ भावः-स्वरूपं तस्य योऽसावनुभवस्तद्वीर्येणोत्पन्नो योऽसौ निश्चयस्तस्मात् । अयमत्र भावः-यदा घटादेर्मुद्रादिसहकारिसम्पर्कात् कपालादिविलक्षणकार्योत्पत्तिर्भवति तदा प्रमाता तवलोक्य पाश्चात्यक्षणानां सादृश्यं निश्चिनोतीति ॥
१ 'वीर्यादुत्पन्नः' इति ङ-पाठः। २ 'पदार्थतया विसदृश.' इति घ-पाठः ङ-पाठस्तु 'प्रदीर्घ- . तया विसदृश.' इति । ३ 'यथाऽऽह कश्चित्' इति क-पाठः। ४ 'अभवनं भूयात्' इत्यर्थः । ५ 'रतस्यान्नतिमतः' इति उ-पाठः । ६ शिखरिणी। ७९७ तमे पृष्ठे ।। ८ 'नित्यादिचन्द्रा इति क-पाठः ।