________________
२१२
अनेकान्तजयपताकाख्यं प्रकरणम् [ तृतीयः
(मूलम् ) र्येण साधासिद्धेः साधर्म्याच समारोप इति ॥
यद्येवं स्थिरेतरादीनां किं साधयं क वा तेषां ग्रहणं येन ५ अस्थिरादिषु तत्समारोपः? सदृशापरापरोत्पत्तिविप्रलम्भादयमिति
चेत्, किमिदं सजातीयेतरविविक्तैकखभावानां भावानां सादृश्यम् ? कथं वा सदप्येतत् तदेकग्राहिणा ज्ञानेन गम्यते? । तेषामेव तत्वभावतया तथाग्रहणेनेति चेत्, आकालं तदेकग्रहणे कुतोऽयं नभस
आप्तवादः ? अनेकभिन्नकालभावग्रहणे चैकेनापति क्षणिकता । १० तथाविधभावानुभवसामर्थ्यजनिश्चयात् तदवगम्यत इति चेत्,
(खो० व्या०) आशङ्काबीजाभावात् , किन्तु निवृत्तिरेव । प्रस्तुतमेवाह-वैधhण हेतुना साधासिद्धेः सर्वत्र । यदि नामैवं ततः किमित्याह-साधाच समारोप इति ।
अस्ति च शुक्तिका-रजतयोस्तदित्यभिप्रायः ॥ १५ एतदाशयाह-यद्येवं स्थिरेतरादीनां-नित्यानित्यादीनां किं साधर्म्यम् ? लक्षणभेदान्न किञ्चिदित्यर्थः । क वा तेषां ग्रहणम् ? नित्यानामभावेन तदयोगात् येनास्थिरादिषु भावेषु, 'आदि'शब्दादनात्मादिग्रहः तत्समारोप:नित्यात्मादिसमारोपः ? सदृशापरापरोत्पत्तिविप्रलम्भात् कारणात् अयम्'नित्यात्मादिसमारोपः। इति चेत्,एतदाशङ्कयाह-किमिदं सजातीयेतरविविक्तै२० कखभावानां भावानामत्यन्तविलक्षणानामित्यर्थः, सादृश्यम् न किञ्चित् । कथं वा सदप्येतत्-सादृश्यं तदेकग्राहिणा तेषां-भावानामेकग्रहणशीलं तदेकग्राहि तेन ज्ञानेन गम्यते, तदेनकग्रहणनान्तरीयकत्वात् तदवगमस्य ? । 'न गम्यत इत्यर्थः । तेषामेवेत्यादि । तेषामेव भावानां तत्वभावतया-सदृशस्वभावतया तथाग्रहणेन-सदृशग्रहणेन इति चेद् गम्यते । एतदाशयाह२५ आकालं यावदपि कालस्तावदपि, सर्वकालमित्यर्थः, एकग्रहणे सति कुतोऽयं 'तेषामेव तत्स्वभावतयेत्यादिलक्षणः नभसः-आकाशात् आप्तवादः? अनेकभिन्नकालभावग्रहणे चैकेन, प्रक्रमात् ज्ञानेन । किमित्याह-अपैतिक्षणिकता भावानामिति । तथाविधेत्यादि । तथाविधभावानुभवसामर्थ्यजनिश्चयात्,
१ 'सामर्थ्यम्' इवि क-पाठः। २ 'तयसमारोपः' इति क-पाठः। ३ 'इत्यात्मादि०' इति घ-पाठः। ४ 'नावगम्यत' इति ङ-पाठः। ५ 'सामर्थ्यजनितनिश्चयात्' इति क-पाठः ।