________________
२११
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम्) इत्थमेवेदमिति चेत्, कथं व्यवधानसम्भवः । ततस्तनिश्चयानुत्पत्तेरिति चेत्, सैव तावत् किमिति चिन्त्यम् । निश्चयान्तरोत्पादादिति चेत्, कथमनुभवान्तरान्निश्चयान्तरोत्पादः । तत्तत्वभाव- ५ त्वादिति चेत्, अनुभवान्तरवन्न तस्य तत्त्वम्, तत्त्वे वा ततस्तदुत्पादे व्यवहारनियमोच्छेदः । एवं हि नीलानुभवजन्योऽपि तनिश्चयः 'पीताद्यनुभवस्य तत्वभावतया तज्जन्योऽपि सम्भाव्यत एव, एवमन्यत्रापीति न न्यायविदस्ततो व्यवहारे नियमतः प्रवृत्तिर्युक्ता, सर्वनाशङ्कानिवृत्तेरिति । न अनिवृत्तिः सर्वत्र बीजाभावाद् वैध-१०
(खो० व्या) इत्थमेवेदमिति चेत् तत्त्वेनैव ग्रहणमित्यर्थः । एतदाशयाह-कथं व्यवधानसम्भवः ?। नहि तस्य व्यवधानजनकत्वमित्यर्थः । ततः-शुक्तिकाज्ञानात् इन्द्रियजात् तनिश्चयानुत्पत्तेः-शुक्तिकानिश्चयानुत्पत्तेः व्यवधानसम्भवः । इति चेत्, एतदाशङ्कयाह-सैव तावत् निश्चयानुत्पत्तिः किं-केन कारणेन इति १५ चिन्त्यम् । निश्चयान्तरोत्पादात्-रजतनिश्चयोत्पादात् इति चेत्, तन्निश्चयानुत्पत्तिः । एतदाशङ्क्याह-कथमनुभवान्तरात्-शुक्तिकाऽनुभवरूपात् निश्चयान्तरोत्पादः-रजतनिश्चयोत्पादः१ तस्य-शुक्तिकाऽनुभवस्य तत्स्वभावत्वात्रजतनिश्चयोत्पादनस्वभावत्वात् । इति चेत्, एतदाशङ्कयाह-अनुभवान्तरवत् रजतानुभववदित्यर्थः । न तस्य-शुक्तिकाऽनुभवस्य तत्त्वं-शुक्तिकाऽनुभवतत्त्वं तत्त्वे २० वा-शुक्तिकाऽनुभवतत्त्वे वा तत:-शुक्तिकाऽनुभवात् तदुत्पादे-निश्चयान्तरोत्पादे । किमित्याह-व्यवहारनियमोच्छेदः। एनमेव भावयन्नाह-एवं हीत्यादि। एवं यस्मान्नीलानुभवजन्योऽपि तन्निश्चयः-नीलनिश्चयः पीताद्यनुभवस्य तत्स्वभावतया नीलनिश्चयजननस्वभावतया तजन्योऽपि-पीताद्यनुभवजन्यःअपि सम्भाव्यत एव, विजातीयशुक्तिकाऽनुभवाद् विजातीयरजतनिश्चयोपपत्तेः, २५ एवमन्यत्रापि-रक्तादिनिश्चये इति-एवं न न्यायविदः-पुरुषस्य ततःनिश्चयाद् व्यवहारे प्रस्तुते नियमतः-नियमेन प्रवृत्तियुक्ता । कुतो न युक्तेत्याह-सर्वत्र विकल्प उत्थापकं प्रति आशङ्काऽनिवृत्तेः कारणात्, न अनिवृत्तिः, आशङ्काया इति प्रक्रमः । कुत इत्याह-सवेत्र बीजाभावात्
१ 'पीतानुभवस्य' इति ग-पाठः । २ 'तया जन्योऽपि' इति ग-पाठः । ३ 'सम्भाव्यतैव एव.' इति ग-पाठः। ४ 'न, अनिवृत्तेः' इति ग-पाठः। ५ 'इन्द्रियज्ञानात् तनिश्चया.' इति क-पाठः ।