________________
अनेकान्तजयपताकाख्यं प्रकरणम्
( मूलम् )
किञ्चासौ भावः प्रत्यभिज्ञानजनने व्यवधानसम्भवस्वभावो वा स्यान्न वा, उभयथाऽपि क्वचिद् भेदे व्यवधानसम्भवादित्ययुक्तम्, ५ यथाक्रमं सर्वत्रैव तत्सम्भवासम्भवापत्तेः, अन्यथैकस्वभावत्वविरोधात् । अतन्निबन्धनत्वे च निश्चयानां न तेभ्यस्तत्तत्त्वव्यवस्थेत्यफला तत्कल्पना । एवं च 'यथा शुक्तेः शुक्तिंत्वे' 'इत्यनुदाहरणमेव भवन्नीत्या तदयोगात् शुक्तिकाया अध्यक्षज्ञानेन नीलादिवत् तत्त्वेनैव ग्रहणात् ॥
२१०
१०
[ तृतीयः
( खो० व्या० )
दूषणान्तरमाह - किञ्चासौ भावः पदार्थः खप्रत्यभिज्ञानजनने - खनिश्चयज्ञानजनने व्यवधानसम्भवस्वभावो वा स्यान्न वेति द्वयी गतिः । उभयथाsपि - पक्षद्वयेऽपि कचिद भेदे व्यवधानसम्भवादित्ययुक्तम् । कुत इत्याह-यथाक्रमं यथासङ्ख्यं सर्वत्रैव - कचिदित्येतद्व्युदासेन सर्वत्रैव वस्तुनि १५ तत्सम्भवासम्भवापत्तेः, तस्य - व्यवधानस्य सम्भवश्चासम्भवश्च तत्सम्भवासम्भवौ, तयोरापत्तिः ततः । एतदुक्तं भवति-येद्यसौ भावः स्वप्रत्यभिज्ञानजनने व्यवधानसम्भवस्वभावस्ततस्तत् सम्भवत्येव सर्वत्र व्यवधानम्, न चेन्न सम्भवत्येवेति हृदयम् । इत्थं चैतदङ्गीकर्तव्यमित्याह - अन्यथैकखभावत्वविरोधात् । एकस्वभावो हि स्वप्रत्यभिज्ञानजनने व्यवधानसम्भवैकस्वभावस्तदसम्भवैकस्वभावो वा, २० अन्यथा तच्चित्रस्वभावतैवेति भावनीयम् । अतन्निबन्धनत्वे च - विवक्षितभावानिबन्धनत्वे च निश्चयानाम् । किमित्याह-न तेभ्यः- निश्चयेभ्यः तत्तत्त्वव्यवस्था- विवक्षितभावतद्भावव्यवस्था इति एवं अफला - निष्प्रयोजना तत्कल्पना, प्रक्रमाद् व्यवधानसम्भवकल्पना । एवं च सति 'यथा शुक्तेः शुक्तित्वे' " इत्यनुदाहरणमेव । कथमित्याह - भवन्नीत्या- त्वद्दर्शनानुसारेण तदयोगात्, २५ प्रक्रमाद् व्यवधानसम्भवायोगात् । अयोगश्च शुक्तिकाया अप्यक्षज्ञानेन - इन्द्रियज्ञानेन, नीलादिवदिति निदर्शनम्, तत्त्वेनैव - शुक्तिकात्वेनैव ग्रहणात् ॥ (विवरणम् )
(२२) विवक्षितभावतद्भावव्यवस्थेति । विवक्षितभावस्य तद्भावेन-प्रतिनियतैकस्वरूप लक्षणेन व्यवस्था - मर्यादा न स्यात् ॥
१ 'दिल्यप्ययुक्तम्' इति ग-घ-पाठः । २ 'शुक्तित्वं इत्यनु०' इति क-ध-पाठः । १०९ तमं पृष्ठम् । ४ 'यदसौ भावः' इति ङ-पाठः । ५ 'ज्ञानं जनने' इति क-पाठः ।
३ द्रष्टव्यं
६ 'शुक्तित्वं इत्यनु०' इति क- पाठः । ७ 'द्रष्टव्यं २०९ तमं ङ-पाठः । ९ ' स्वरूपलभ्यमानं सर्वेषां रूपज्ञानमेव जनयति'
पृष्ठम् । ८ 'अध्यक्षज्ञानेन' इति इति ख-च- पाठः ।