________________
अधिकारः] खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
२०९ (मूलम्) भेदे व्यवधानसम्भवात् , यथा शुक्तेः शुक्तित्वे, यत्र तु प्रति. पत्तुभ्रान्तिनिमित्तं नास्ति तत्रैव अस्य दर्शनाविशेषेऽपि स्माों निश्चयो भवति, समारोपनिश्चययोर्बाध्यबाधकभावादिति। एतदप्य- ५ सत् , निरंशे तथागृहीते कचिद् व्यवधानं कचिन्नेत्यपन्यायत्वात्, भेदाभावेन तत्त्वत एकनिश्चयज्ञानप्रसङ्गात् । न खलु रूपे एव तदेकखभावनिवन्धनानि भूयांसि निश्चयज्ञानानि ॥
(खो० व्या०) भेदे-भावविशेषे व्यवधानसम्भवात्, प्रत्यभिज्ञानस्य समारोपेणेति भावः । १० निदर्शनमाह-यथा शुक्तेः-शीप्रकद्रव्यस्य शुक्तित्वे व्यवधानसम्भवः प्रत्यभिज्ञानं प्रति रजतसमारोपेण यत्र तु भावभेदे पदार्थे प्रतिपत्तुः-पुरुषस्य भ्रान्तिनिमित्तं सादृश्यं नास्ति, तत्रैव भावभेदेऽस्य-पुरुषस्य दर्शनाविशेषेऽपिउभयत्र यत् तत्त्वं तद् दृश्यत इति दर्शनाविशेषस्तस्मिन्नपि सति स्मार्तो निश्चयो भवतीति गृहीतग्राही । किमेतदेवमित्याह-समारोप-निश्चययोर्बाध्यबाधक- १५ भावात् । समारोपो बाध्यः, निश्चयो बाधक इति । एवं पूर्वपक्षमाशङ्कयाह-एतदपि-अनन्तरोदितम् , असत्-अशोभनम् । कुत इत्याह-निरंश इत्यादि । निरंशे वस्तुनि तथा-निरंशतया गृहीते कचिद् व्यवधानं कचिन्नेत्यपन्यायत्वात् एतदप्यसत् , अपन्यायत्वं च भेदाभावेन हेतुना निरंशत्वेन तत्त्वतः-परमार्थेन एकनिश्चयज्ञानप्रसङ्गात् निबन्धनकत्वेन । एतद्भावनायैवाह-न खल्वि-२० त्यादि । न खलु-नैव रूपे एवालम्बने तदेकखभाव निबन्धनानि तद्रूपमेवैकः स्वभावो निबन्धनं येषां तानि तथा भूयांसि-प्रभूतानि, प्रक्रमाजातिभेदमधिकृत्य निश्चयज्ञानानि-रूपरसादिलक्षणानि, किं तर्हि प्रभूतान्यपि व्यक्तिभेदापेक्षया रूपज्ञानान्येव ? एवं भेदाभावेन तत्त्वत एकनिश्चयज्ञानप्रसङ्गः ॥
(विवरणम्) (२०) निबन्धनैकत्वेनेति । रूपादिनिश्चयज्ञानस्य हि निरंशैकखभावं वस्तुपरम्परया निबन्धनमभ्युपगम्यते भवद्भिः, ततो निबन्धनस्यैकत्वात् प्रतिनियतैकाकारो विकल्पः प्राप्नोति, न तु बहव इति ॥
(२३-२४) किं तर्हि प्रभूतान्यपि व्यक्तिभेदापेक्षया रूपज्ञानान्येवेति । रूपं हि समकमनेकप्रमातृव्यक्तिभिरुपलभ्यमानं सर्वेषां रूपज्ञानमेव जनयति, न तु ३० रसादिभिन्नजातीयज्ञानमिति ॥ १ एवं' इति पाठो घ-पुस्तके नास्ति । २ 'निमिसनक०' इति ख-च-पाठः ।
अनेकान्त. २७