________________
अनेकान्तजयपताकाख्यं प्रकरणम्
(मूलम् )
अथ पर्युदासरूपः कथं न वस्तुस्वभावनिश्चयात्मकं तत् ? तत्रैव प्रवृत्तेः न तत् तदेति चेत्, कथमसमारोपविषयेऽस्य भावः ? । ५ अयमस्यैवात्मा न त्वन्य इति चेत्, स्वात्मन एव, तदितरविकलस्य तत्वकल्पनायामतिप्रसङ्गः, खलक्षणज्ञानस्यापि तत्त्वेन तद्भावापत्तेरिति ॥
rathi - 'यत्र यस्य समारोपो भवति यथा स्थिरः सात्मक इति वा, न तत्र निश्चयो भवति' एतदप्ययुक्तम्, परमार्थेन तस्यास्थिरा१० नात्मकस्यैव ग्रहणात्, तत्र रूपादाविव समारोपप्रवृत्त्ययोगात् । स्यादेतत् नहि तथा गृहीतोऽपि भावस्तथैव प्रत्यभिज्ञायते कचिद ( स्वो० व्या० )
एवं प्रैसज्यपक्षे दोषमभिधाय पक्षान्तरे दोषमभिधातुमाह- अथ पर्युदासरूपः प्रस्तुतः समारोपाभावः । एतदाशङ्कयाह - कथं न वस्तुस्वभावनिश्चयात्मकं १५ तत् - रूपादिनिश्चयज्ञानम् ? तत्रैव - रूपादावेव प्रवृत्तेः न तत्-रूपादि तदारूपादिनिश्चयज्ञानकाले । इति चेत्, एतदाशङ्कयाह- कथमसमारोपविषयेसमारोपाभावे पर्युदासात्मके अस्य रूपादिनिश्चयज्ञानस्य भावः ? । अयमित्यादि । अयम्-असमारोपविषयः अस्यैव-अधिकृतनिश्चयज्ञानस्य आत्मा, न त्वन्यः - व्यतिरिक्तः । इति चेत्, एतदाशङ्कयाह - स्वात्मन एव - ज्ञानसम्बन्धिनः २० तदितरविकलस्य - विषयविकलस्य तस्वकल्पनायां विषयत्वकल्पनायामुक्तनीत्या । किमित्याह- अतिप्रसङ्गः । कथमित्याह-स्खलक्षणज्ञानस्यापि तत्वेनतदितरविकलत्वेन हेतुना तद्भावापत्तेः - असमारोपविषयाभावापत्तेः, निश्चयज्ञानत्वापत्तेः इति अर्थः ॥
206
१ २०६ तमे पृष्ठे ।
[ तृतीय
यचोक्तमधिकृत पूर्वपक्षग्रन्थे - 'यत्र ह्यस्य समारोपो भवति यथा २५ स्थिरः सात्मक इति वा, न तत्र निश्चयो भवति' एतदप्ययुक्तम् । कथमित्याह - परमार्थेन - वस्तुस्थित्या तस्य - पदार्थस्य अस्थिरानात्मकस्यैव ग्रहणात्, नान्यत् तस्य रूपमिति कृत्वा । ततः किमित्याह - तत्र -- अस्थिरत्वादौ रूपादाविव समारोपप्रवृत्त्ययोगात् । नहि रूपे रूपतया गृहीते समारोपः । स्यादेतदित्यादि । स्थादेतत् नहि तथा-स्वरूपेण गृहीतोऽपि भावः३० पदार्थः तथैव प्रत्यभिज्ञायते - निश्चयज्ञानेन गम्यते । कथमित्याह - कचिद्
४ २०६ तमे पृष्ठे ।
9
-
२ ' प्रसज्यपक्षे' इति घ- पाठः । ३ ' तदा निश्वयज्ञान ०' इति घ-पाठः । ५ ' यथा स्वरूपेण' इति क- पाठः ।