________________
अधिकारः] खोपशव्याख्यामुनिचन्द्रीयविवरणयुतम् २०७
(मूलम्) पोहगोचरमेव, न वस्तुखभावनिश्चयात्मकमिति । एतदपि यत्किश्चित्, वामात्रत्वात् ।।
यत् तावदुक्तम्-'असमारोपविषये भावात्' इत्यत्र समारोपा-५ भावेऽस्य वृत्तिरुक्ता, अयं च समारोपाभावो यदि प्रसज्यप्रतिषेधरूपः, न कचिदस्य वृत्तिस्तस्य तुच्छत्वात्, तत्त्वत इत्थमेवेदमिति चेत्, कथमतुच्छप्रतिभासं रूपादिनिश्चयज्ञानम् ? । तुच्छप्रतिभासमेव तदिति चेत्, अनुभवविरोधः, रूपादिप्रतिभासस्य वेद्यमानत्वात् , अन्यथा तदनाकारत्वेन वेदनाऽयोगादिति ॥
(स्वो० व्या०) समारोपविवेक एव च अन्यापोहः तद्व्यवच्छेदः । इति एवं तदपि अधिकृतनिश्चयज्ञानं तन्मात्रापोहगोचरमेव समारोपापोहमात्रगोचरमित्यर्थः । न वस्तुखभावनिश्चयात्मकं-न वलक्षणनिश्चायकमिति योऽर्थः । एवं पूर्वपक्षमाशङ्कयाह-एतदपि यत्किञ्चित्-असारम् । कुत इत्याह-वाडूमात्रत्वात्-१५ वाच्यार्थशून्यत्वात् ॥ ___ एतदेव दर्शयति यत् तावदुक्तमित्यादिना । तत्र यत् तावदुक्तं पूर्वपक्षग्रन्थे - 'असमारोपविषये भावात्' इत्यत्र-प्रन्थे समारोपाभावेऽस्य-निश्चयस्य वृत्तिरुक्ता, एतदैदम्पर्यम् । यदि नामैवं ततः किमित्याह-अयं च समारोपाभावो यदि प्रसज्यप्रतिषेधरूप:-समारोपाभवनमात्रलक्षणः, ततः किमित्याह-२० न कचिदस्य-निश्चयस्य वृत्तिः । कुत इत्याह-तस्य-सज्यप्रतिषेधरूपस्य समारोपाभावस्य तुच्छत्वात्-असत्त्वादित्यर्थः । तत्त्वत इत्यादि । तत्त्वतःपरमार्थेन इत्थमेवेदं न क्वचिदस्य वृत्तिः । इति चेत्, एतदाशङ्कयाह-कथमतुच्छप्रतिभासं रूपादि वस्त्वाकारं रूपादिनिश्चयज्ञानम् ? | तुच्छेत्यादि । तुच्छप्रतिभासमेव तत्-रूपादिनिश्चयज्ञानम् । इति चेत्, एतदाशवाह- २५ अनुभवविरोधः। एवं कथमित्याह-रूपादिप्रतिभासस्य रूपादिनिश्चयज्ञाने वेद्यमानत्वात् , अन्यथा-एवमनभ्युपगमे तस्य-रूपादिनिश्चयज्ञानस्य अनाकारत्वेन हेतुना । किमित्याह-वेदनाऽयोगात् । तत् हि अनाकारं कस वेदनमिति भावनीयम् ॥
१ २०६ तमे पृष्ठे। २ 'भावस्य' इति ग-पाठः। ३ 'प्रसज्यप्रति.' इति घ-पाठः। ४ 'रूपस्ततो न' इति ग-पाठः। ५ 'विरोधाद् रूपादि.' इति क-पाठः। ६ 'निश्वायकर इति इ-पाठः। ७ २०६ तमे पृष्ठे । ८ 'प्रसज्जयप्रति०' इति घ-पाठः।