________________
अनेकान्तजयपताकाख्यं प्रकरणम् [ तृतीय:
(मूलम्) समारोपव्यवच्छेदार्थमपि प्रमाणान्तरप्रवृत्तिः, न्यायतः समारोपस्यैवायोगात्, सजातीयेतरविविक्तैकस्वभावस्य वस्तुन इन्द्रिय५ ज्ञाने प्रतिभासनात् रूपादिनिश्चयज्ञानवत् तन्निबन्धननिश्चय
ज्ञानानां तमन्तरेणैव प्रवृत्तिसम्भवात् । तथाहि-यद रूपादिदर्शनानन्तरमलिङ्गं निश्चयज्ञानं भवति, तत् कथमसति समारोपे भवत् तद्व्यवच्छेदविषयम् ? ॥
स्थादेतत्, असमारोपविषये भावात् तद्व्यवच्छेदविषयम्, ० यत्र ह्यस्य समारोपो भवति यथा स्थिरः सात्मक इति वा, न तत्र निश्चयो भवति, तद्विवेक एव च अन्यापोह इति, तदपि तन्मात्रा
(खो० व्या०) नैवम्-उक्तेन प्रकारेण समारोपव्यवच्छेदार्थमपि प्रमाणान्तरप्रवृत्तिः । कुत इत्याह-न्यायत:-न्यायेन समारोपस्यैवायोगात् । अयोगश्च सजाती१५ येतरविविक्तैकखभावस्य वस्तुन इन्द्रियज्ञाने प्रतिभासनात् कारणात् ।
रूपादिनिश्चयज्ञानवदिति निदर्शनम् । तन्निबन्धननिश्चयज्ञानानाम्अधिकृतवस्तुनिबन्धननिश्चयज्ञानानां तमन्तरेण-समारोपमन्तरेण एव प्रवृत्तिसम्भवात् कारणात् । न समारोपव्यवच्छेदार्थमपि प्रमाणान्तरप्रवृत्तिः, अनित्यत्वादिनिश्चयानामपि समारोपव्यवच्छेदमन्तरेणैव भावप्रसङ्गादित्यर्थः । अधिकृतार्थभावनाय २० एवाइ-तथाहीत्यादि । तथाहीत्युपप्रदर्शने । यद् रूपादिदर्शनानन्तरम्अव्यवधानेन अलिङ्गं-लिङ्गरहितं निश्चयज्ञानं भवति, प्रक्रमाद् रूपादिविषयमेव तत् कथमसति समारोपे-अरूपादिविषये भवत्-उत्पद्यमानं तद्व्यवच्छेदविषयं-समारोपव्यवच्छेदविषयम् ? 'नैव समारोपाभावेन तद्व्यवच्छेदायोगादिति ॥ __ स्यादेतत् , असमारोपविषये भावात् तव्यवच्छेदविषयमिति २५ समारोपस्य विषयः समारोपविषयः, न समारोपविषयः असमारोपविषयः, तस्मिन् ,
समारोपशून्य इत्यर्थः, भावात्-उत्पत्तेः कारणादधिकृतनिश्चयज्ञानस्य तद्व्यवच्छेदविषयमिति । एतद्भावनायैवाह-यत्र-पदार्थे 'हि'शब्दोऽवधारणेऽस्य-पुरुषस्य समारोपो भवति, यथा स्थिरः सात्मक इति वाऽयं पदार्थः, न तत्र निश्चयो भवति अनित्यत्वादिनिश्चयः, तद्याथात्म्यविषयः तद्विवेक एव च
१ 'समन्तरेणैव' इति क-पाठः । २ शत्रन्तं पदमिदम् । ३ 'नैवासमारोपा०' इति क-पाठः । ४ 'चार्य पदार्थः' इति क-पाठः। ५ 'विषयस्तद्याथात्म्य विषयस्तद्विवेक' इति क-पाठः।