________________
खोपज्ञव्याख्यामुनिचन्द्रीयविवरणयुतम्
(मूलम् )
प्रतीत्यभावादिति । एवं च 'तत्रैव प्रामाण्यमात्मसात्कुरुते" इति
अधिकार: ]
२०५
वचनमात्रम् ॥
इतश्च वचनमात्रम्' - 'यत्र तु भ्रान्तिकारणसद्भावादशक्तं तत्र ५ प्रमाणान्तरं व्याप्रियते' इत्याद्युपन्यासात् । तथा हि-यदि तत् कचिदशतं पाश्चात्यं निश्चयं जनयितुमेवं तर्ह्यशक्तमेव, सर्वथैकत्वात् एकस्य चैकस्वभावत्वेन शक्तत्वाशक्तत्वविरोधात् कथञ्चिदविरोधेऽप्यभ्युपगमविरोधात्, भिन्नांशविषयनिश्चय भावाभावयोस्तु न तस्य किञ्चिदिति कथं कचित् प्रामाण्यमात्मसात्कुरुत इति ? । नैवं " ( खो० व्या० )
}
तत्त्वतो वचनमात्रत्वात् । वचनमात्रत्वं च तथा सम्यग् निश्चयशक्त्यव - गमरूपेण प्रतीत्यभावादिति । एवं च यथोक्तनीत्या 'तत्रैव प्रामाण्यमात्मसात्कुरुते' 'इति वचनमात्रम्, निरर्थकमित्यर्थः ॥
इतश्च वचनमात्रम् - "यत्र तु भ्रान्तिकारणसद्भावादशक्तं तत्र १५ प्रमाणान्तरं व्याप्रियते' इत्याद्युपन्यासात् पूर्वपक्षग्रन्थ एव । इहैव भावार्थमाह तथाहीत्यादिना । तथाहि यदि तत् प्रक्रमाद् अविकल्पम्, कचिदशकं पाश्चात्यं निश्चयं जनयितुम्, एवं तर्ह्यशक्तमेव एकान्तेन । कुत इत्याह- सर्वथैकत्वात् कारणात् । एकस्य च वस्तुन एकस्वभावत्वेन हेतुना शक्तत्वाशक्तत्वविरोधात् । तथाहि एकमेकस्वभावं यदि शक्तं शक्त- २० मेव, अथाशक्तमशक्तमेवेति भावनीयम् । कथञ्चिदविरोधेऽपि निमित्तभेदेन शक्तत्वाशक्तत्वस्य अभ्युपगम विरोधादनेकान्तवादापत्त्या । अथ भिन्ना अस्यांशा इति । एतदूव्यपोहायाह- भिन्नांशेत्यादि । भिन्नौ च तौ प्रत्यक्षादिति प्रक्रमः, अंशौ च भिन्नांशौ, तौ विषयौ ययोस्तौ भिन्नांशविषयौ, भिन्नांशविषयों च तौ निश्चयौ चेति विग्रहः, तयोर्भावाभावौ तयोः पुनर्न तस्य - प्रत्यक्षस्य किञ्चि- २ दिति एवं कथं कचित् प्रामाण्यमात्मसात्कुरुत इति । । नैवमित्यादि । ( विवरणम् )
(२१) कथञ्चिदविरोधेऽपि निमित्तभेदेनेति । अनेकान्तवादिनो हि जैनस्य भते ज्ञानं ज्ञातुं शक्याशक्यज्ञेयापेक्षया शक्तत्वाशक्तत्वलक्षणधर्मद्वयोपेतं प्रवर्तत इति निमित्तभेदः स्फुट एव ॥
१-४ द्रष्टव्यं २०० तमं पृष्ठम् । ५ 'भावनार्थमाह' इति घ- पाठः । ६ 'शक्तया शक्यज्ञेयापेक्षया' इति क-पाठः ।
३०