________________
२०४
अनेकान्तजयपताकाख्यं प्रकरणम् [तृतीया
(मूलम्) तन्निश्चय इति चेत्, न, अतिप्रसङ्गात्, नीलादि पश्यतः कचिद् भिन्नजातीयविकल्पाभ्युपगमात्, तस्य च ततो भावात्, अन्यथा ५अहेतुकत्वापत्तेः । संवादको निश्चय इति चेत्, न, अप्राप्यदेशगतजलादिनिश्चयेन व्यभिचारात् । न च संवादनशक्तिरेव संवादनमित्यदुष्टम् , शक्तरप्रत्यक्षत्वात् , कार्यमन्तरेण तद्भावानवगतेः । न च ततोऽनन्या शक्तिरिति तदवगतावेव तदवगतिः, तदाभासतोऽप्रवृत्तिप्रसङ्गात्, तच्छत्तयवगमापत्तेः। न च तदाभासत्वतो न तच्छत्तय१० वगमः, तेनाप्यात्मवेदनात् तस्याश्च तदनन्यत्वात् । न च सम्यम् निश्चयशक्तेरेवावगतिरिति युक्तम्, तत्त्वतो वचनमात्रत्वात् । तथा
(खो० व्या०) तन्निश्चयः-वस्तुनिश्चयः । इति चेत्, एतदाशङ्याह-न, अतिप्रसङ्गात् ।
एनमेवाह-नीलादि पश्यतः प्रबन्धेन कचित्-अर्थान्तरावगमे भिन्नजातीय१५ विकल्पाभ्युपगमात्-स्मार्तपीतादिविकल्पाभ्युपगमात् , तस्य च-विकल्पस्य
ततः-नीलादिदर्शनाद् भावात्, अन्यथा-एवमनभ्युपगमेऽहेतुकत्वापत्तेः तस्यातिप्रसङ्ग इति ॥
निश्चयमेवाधिकृत्य प्रकारान्तरमाह-संवादको निश्चयः । इति चेत्, एतदाशङ्कयाह-न, अप्राप्यदेशगतजलादिनिश्चयेन व्यभिचारात् । स हि २० निश्चयोऽसंवादकश्च । न च संवादनशक्तिरेव संवादनमित्यदुष्टम् , किन्तु दुष्टमेव । कुत इत्याह-शक्तरप्रत्यक्षत्वात् । यदि नामैवं ततः किमित्याहकार्यमन्तरेण संवादनादिरूपं तद्भावानवगतेः-शक्तिभावानवगतेः । न चेत्यादि । न च ततः-निश्चयात् अनन्या शक्तिरिति कृत्वा तदवगतावेवनिश्चयावगतावेव तदवगतिः-शक्त्यवगतिः । कुत इत्याह-तदाभासत:२५ निश्चयाभासतः । किमित्याह-अप्रवृत्तिप्रसङ्गात् । प्रसङ्गश्च तच्छत्तयवगमापत्तेः-तदाभासशक्त्यवगमापत्तेः। न चेत्यादि । न च तदाभासत्वतः कारणात् , न तच्छक्त्यवगमः-न तदाभासशक्त्यवगमः, किन्त्ववगम एव । कुत इत्याहतेनापि तदाभासेन आत्मवेदनात् कारणात् । यदि नामैवं ततः किमित्याहतस्याश्च-तदाभासशक्तेः तदनन्यत्वात्-तदाभासानन्यत्वात् । न चेत्यादि । ३० न च सम्यग् निश्चयशक्तेरेवावगतिरिति युक्तम् । कुत इत्याह
१ 'चेत्, प्राप्य०' इति ग-पाठः। २ 'संवादश्च' इति ङ-पाठः। ३ 'अन्तरेणेति शेषः' इति घ-पुस्तके टिप्पणकम् ।